पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२९२

एतत् पृष्ठम् परिष्कृतम् अस्ति

२८२ वीरमित्रोदयस्य श्राद्धप्रकाशे- भूतयज्ञादिकं श्राद्धान्त एवेति हेमाद्रिः । यद्यपि चास्मिन्पक्षद्वये निरनि कग्रहणं नास्ति, तथापि साग्निकस्य लौगाक्षिणा पक्षान्तरस्योतत्वा निरग्निकविषयमेवेति हेमाद्रिप्रभृतयः | मार्कण्डेयपुराणे | नित्यक्रियां पितॄणां हि केचिदिच्छन्ति सत्तमाः । नित्याकया=नित्यश्राद्धम् । अयं च विकल्पो यत्र षट्पुरुषश्राद्धं तत्र न भवति, यत्र तु एकोहिष्टादौ ततो न्यूनं, तत्र भवतीति व्यव स्थितो शेयः । अत एव चमत्कारखण्डे । नित्यश्राद्धं न कुर्वीत प्रसङ्गाद्यत्र सिध्यति ॥ श्राद्धान्तरे कृते ऽन्यत्र (१) नित्यत्वात्तन हापयेत् । मैथिला अव्येवम् । गौड़ास्तु षट्पुरुष तृप्तेजतत्वादकरणे दोषासावमात्रं, करणे तु अभ्युदयः, षोडशिग्रहणवदित्याहुः । मात्स्ये | ततस्तु वैश्वदेवान्ते सभृत्यसुतबान्धवः । भुञ्जीतातिथिसंयुक्तः (२) सर्व पितृनिषेवितम् ॥ गावातपोऽपि । शेषमन्नमनुज्ञातो भुञ्जीत तदनन्तरम् । अत्र च यदि ते अभ्यनुज्ञानं प्रयच्छन्ति तदा तत्तेभ्यो दवाऽना न्तरेण स्वयं भुखीतेति हेमाद्रिः । अतश्चैकादश्यादौ भोजनाभावेऽपि न वैगुण्यमिति चिन्तामणिः । गौडास्तु रागतः प्राप्तभोजनस्यैषायं नियमोनार्यनुगमनवत् । तस्य च प्रकरणात् श्राद्धाङ्गभूतस्योपकाराकाङ्क्षायां प्रतिपस्यईकृतार्थश्राद्धीयद्रव्यार्थता विज्ञायते । अतश्च यस्यैव प्रतिपत्तिर्न क्रियते तस्यैव वैगुण्यापत्तेः सर्वमेव भोक्तव्यम् । मांसेषु निमन्त्रितवत् यजमानस्य न नियमः | "देवान्पितॄन्समभ्यर्च्य खादन्मांसं न दोषभाकू" इत्युकत्वात् । कृतान्वाधाने तु व्रताविरोधेन भोक्तव्यं तस्य श्रौतत्वादिति हेमाद्रिः । एवं फलार्थेन तत्तद्वस्तुत्यागरूपेण ( १ ) षड्दैवते पृथड्नेत्यर्थं इति कमलाकरः । एकोद्दिष्टादौ पितामहादितृत्य सभवात्कर्तव्यम् । पार्वणादौ प्रासङ्गिक तृप्तेर्नेति व्यवस्थेति काशिकाकारः । ( २ ) सर्वं पर्वनिषिद्धं मांसमाषाद्यपीत्यर्थ इति कमलाकरः ।