पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२९३

एतत् पृष्ठम् परिष्कृतम् अस्ति

आमहेमश्राद्धनिरूपणम् | २८३ व्रतेनाप्येतस्य शेषभोजनस्य बाधो श्रेयः | एकादश्यां तु "आघ्राय पितृसेवित” मिति वचनादाघ्राणमित्याहुः । अभ्ये तु शेषगुणकमर्थकर्मैवेद मोजन, न तु प्रतिपतिकर्म, तथा सति ब्राह्मणानुमति वैयर्थ्यापत्तेः । अन्यीयस्यान्यत्र विनियोगे हि अनुमतिरपेक्षते न तु तेष्वेव विनियोगोपयोगिनि संस्कारे, तस्माद- र्थकर्मैवैतदित्याहुः । इति श्रीमच्छकल सामन्तचक्रन्चूडामणि मरीचिमञ्जर्रानीराजितचरण कमलश्रीमन्महाराजाधिराजप्रताप रुद्रतनूजश्रीमहाराजमधुकरसाहसुनु चतुरुदधिवलयवसुन्धराहृदयपुण्डरीकविकासदिनकर श्रीमम्महाराजाधिराजश्री वीरसिंहोद्योजितहंसप ण्डितात्मजपरशुराममिश्र सुनु सकल विद्यापारावारपारीणधुणिजगद्दारिद्र्य महागजपारीन्द्रविद्वजनजीवातुश्री मन्मित्र मिश्रकृते विरमित्रोद याभिधाननिबन्धे श्राद्धप्रकाशे प्रकृति भूतपार्वणश्राद्धनिर्णयः ॥ कास्यायनः । आपन सौ तीर्थे च प्रवासे पुत्रजन्मनि । आमश्राद्धं द्विजैः कार्य शुद्रेण तु सदैव हि ॥ तथा- अथ तद्नुकल्पः । तत्रामहेमश्राद्धम् ॥ हेमश्राद्धं प्रकुर्वीत मार्यारजसि संक्रमे । बौधायनोऽपि । संक्रमेऽन्नद्विजाभावे प्रवासे पुत्रजन्मनि । हेमश्राद्धं सग्रहे च द्विजः शूद्रः सदा चरेत् || अत्र सर्वत्र हेमविधिरामाभावे ज्ञेयः । अत्र प्रकृतित्वेनाऽऽमस्या- न्तरङ्गत्वात् । “आमानस्याप्यभाषे तु श्राद्धं कुर्वीत बुद्धिमान् । धान्याचतुर्गुणेनैव हिरण्येन सुरोचिषा" इति मरीचिबचनाथ | पुत्रजन्मनि तु विशेषः संघर्तेनोकः ।