पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२९४

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- पुत्रजन्मनि कुर्वीत श्राद्धं हेम्नैव बुद्धिमान | न पक्केन न चामेन कल्याणान्यभिकामयन् ॥ अत एव पुत्रजन्मनि हेम्नोऽनुकल्पस्वम् ग्रहणप्रसवादिषु तु अन्नाद्यभाव एतद्विधिर्ज्ञेयः । संक्रमाग्न्यभावयोस्तु स्वतन्त्रयोरेव तन्निमित्तत्वम् । केचित्तु अग्न्यभावस्थापि पाकासम्भवकृतमेव निमि तत्वमित्याहुः । मामपरिमाणमाह धर्म । आमं तु द्विगुणं प्रोकं हेम तद्वच्चतुर्गुणम् । अन्नाभावे द्विजातीनां ब्राह्मणस्य विशेषतः ॥ व्यासोऽपि । आमं ददतु कौन्तेय तदामं द्विगुणं भवेत् । त्रिगुणं चतुर्गुणं वापि नत्वेकगुणमर्पयेत् ॥ अत्र हेम्नश्चतुर्गुणत्वमामापेक्षयेति हेमाद्रिः । अन्नापेक्षयेत्यन्ये । स्मृत्यर्थसारे तु सममपि आमादि देर्यामित्युक्तम् । आमश्राद्धे च पिण्डदाना द्यपि आमेनैव कार्यम्, "तेनाझौकरणं कुर्यात्पिण्डांस्तेनैव निषेपेदिति" शातातपवचनादिति गौडाः । अन्ये तु । आमश्राद्धं यदा कुर्यात्पिण्डदानं कथं भवेत् । गृहपाकारसमुद्धृत्य सक्तुभिः पायसेन वा ॥ पिण्डदानं प्रकुर्वीत हेमश्राद्धे कृते सति ॥ इति भविष्योत्तरादामहेमश्राद्धे भवत्येव द्रव्यान्तरेण पिण्डदानम् । यतु शातातपवचनं तत् तत्राप्यनाभावे वेदितव्यमित्याहुः । एवं शूद्रकर्तृकेऽप्यामश्राद्धेअन्नेनैव पिण्डदानं कार्यम् । शूद्रस्तु गृहपाकेन तत्पिण्डान्निर्वपेत्तथा । सकतुर्मूलं फलं तस्य पायसं वा भवेत्स्मृतम् ॥ इति हेमाद्रिधृतभविष्यवचनात् । अत्र पिण्डदानग्रहणाशिकिरादा. वाममेवेति केचित् । २८४ वस्तुतस्तु । नामन्त्रणं नागौकरणं विकिरो नैव विद्यते । तृप्तिः प्रश्नोऽपि नैवात्र कर्तव्यः केनचिद्भवेत् ॥