पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२९५

एतत् पृष्ठम् परिष्कृतम् अस्ति

ब्राह्मणानुकल्पनिरूपणम् । २८५ हुविकल्पो विहितप्रतिषिद्धत्वाज्येः । अत्र ब्राह्मणाल्लुन्थमामं स्वगृहे पक्त्वा स्वयमेव भोक्तव्यं न तु कार्यान्तर उपयोक्तव्यम् । क्षत्रियादिलब्धं तु यथेष्टं विनियोज्यं, शुद्रलब्धस्य तु भोजन एव स्वीये परकीये वा विनियोगो न तु यथेष्टम् । तथा च व्यासः षट्त्रिंशम्मते । हिरण्यामं तु श्राद्धीयं लब्ध्वं यत्क्षत्रियादितः । यथेष्टं विनियोज्यं स्याद् भुञ्जीयाद्ब्राह्मणः स्वयम् ॥ आमं शूद्रस्य यत्किञ्चिच्छ्राद्धिकं प्रतिगृह्यते । तत्सर्वे भोजनायालं नित्यनैमित्तिके न तु ॥ आमादिश्राद्धे च प्राणाहुत्यादिकं लुप्यते । आमश्राद्धे मन्त्रेषु केषु केन चिदूहो मरीचिनोक्तः । आवाहने स्वधाकारे मन्त्रा ऊह्या विसर्जने । अम्य कर्मण्यनूह्याः स्युरामश्राद्धावधिः स्मृतः ॥ इति । आवाहनमन्त्रे पितॄन्हविषे अत्तव इत्यत्र स्वीकर्तव इत्यूहः | विसर्जनमन्त्रे तृप्ता यातत्यत्र तवतेत्यूहः | स्वधाकारमन्त्रे "नमोवः पितर इष इत्यत्रामा येत्यूह इति हेमाद्रिः । अन्ये तु । रसादिपदवदेतस्याशास्यानप्रतिपादकत्वान प्रदेयान्नप्रतिपाद करवं तेन स्वधाकारपदेन त्यागमन्त्रो गृह्यते । तत्र चान्नपदस्याने धान्यादिपदेनोहः कार्य इत्याहुः । इदं चामश्राद्धं ग्रहणादन्यत्र मृताहे द्विजानां न भवति । श्राद्धविघ्ने द्विजातीनामामश्राद्धं प्रकीर्त्तितम् । अमावास्यादिनियतं माससंवत्सराइते | इति हारीतवचनात् । दश रविग्रहे पित्रोः प्रत्याब्दिक सुपस्थितम् । अनेनासम्भवे हेम्ना कुर्यादामेन वा सुतः ॥ इति गोभिलेन ग्रहणे आमादे: प्रतिप्रसूतत्वाच । अत्र दर्शादिपदानि उपलक्षणं पौर्णमास्यादेः । इत्यामादिश्राद्धम् । अथ ब्राह्मणामुकल्पः। तत्र ब्राह्मणाभावे अपात्रकं श्राद्धमिति मैथिलाः । तम्न | निधाय वा दर्भबटुनासनेषु समाहितः । मैषासुप्रैषसंयुक्तं विधानं प्रतिपादयेत् ॥