पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२९६

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे इति देवलवचनविरोधात् । ब्राह्मणानामसंपत्तौ कृत्वा दर्भमयान् द्विजानू । श्राद्धं कृत्वा विधानेन पश्चाद्विप्रे प्रदापयेत् ॥ इति समुद्रकरघृत भविष्यवचनाच्च | प्रैषानुप्रैषम् = उत्तरप्रत्युत्तरम् । कुश बहुप्रमाणं चोक्तं व्यासेन । पञ्चाशद्भिर्भवेद् ब्रह्मा तदर्थेन तु विष्टरः | तदर्जेनोपनयनं तदद्धैन द्विजः स्मृतः । राजमुकुटनिबन्धे । यन्तु नवभिः सप्तभिर्वापि कुशपत्रैर्विनिर्मितः । सावित्र्यावर्त्तितग्रन्थिः कुशब्राह्मण उच्यते । ॐकारेण तु बन्नीयाद् द्विजः कुर्यात्कुशद्विजम् । छन्दोगपरिशिष्टे । यशवास्तुनि मुटयां च स्तम्बे दर्भबटौ तथा । दर्भसंख्या न विहिता विष्टरास्तरणेषु च || इत्यनियमः, सोऽपि विभवे सति पक्षान्तरमिति परिशिष्टप्रकाशः । कुशब्राह्मणे च निमन्त्रणं लुप्यत इति शूलपाणिः, तत्तु तद्भावे कुश- मयं स्नापयित्वा निमन्त्रयेदिति गौडनिबन्धोदाहृत भविष्यविरोधादुपेक्षणीयम् । इति ब्राह्मणानुकल्पः । अथ सांकल्पिक श्राद्धम् । संवर्तः । समग्र यस्तु शक्नोति कर्तुं नैवेह पार्वणम् । अपि संकल्पविधिना काले तस्य विधीयते ॥ पात्रभोज्यस्य चान्नस्य त्यागः सङ्कल्प उच्यते । व्यासः । सांकल्पिकं यदा कुर्यान्न कुर्यात्पात्रपूरणम् । नावाहनं नाग्नौकरणं पिण्डं चैव न दापयेत् । पात्र =अवार्थम् | तथा मनुष्ठानासमर्थ प्रत्याह- व्याघ्रः । अङ्गानि पितृयज्ञस्य यदा कर्त्तुं न शक्नुयात् ।