पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२९८

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- शिरोचतुर्णामपरपक्षाणामष्टमीग्वष्टका इति, एतेन माध्यावर्ष व्याख्यातमित्यादिना संज्ञान्तरं कृतं, तथापि "प्रोष्ठपद्यष्टका भूयः पितृलोके भविष्यती" त्यादिना तस्या अपि अष्टकात्वसिद्धिः । अत्र द्रव्यविशेष उक्तो ब्रह्मपुराणे । २८८ पेन्द्रयां तु प्रथमायां च शाकै: संतर्थयेत्पितॄम् । प्राजापत्यां द्वितीयायां मांलैः संतर्पयेत्पितॄन् || वैश्यदेव्यां तृतीयायामपूपैश्च यथाक्रमम् । वर्षासु मेध्यशाकैश्च चतुर्थ्यां चैव सर्वदा। एतस्य च द्रव्यस्य प्राधान्यमात्रं न तु निरपेक्षसाधनत्वं शाकादीनां केवलानामभोज्यत्वात् घृतश्राद्धावृतवत । अत्र यासा ग्निकं प्रति आश्वलायनादिभिः पशुना स्थालीपाकेन वेत्यादिना होमप्रकार उक्तः स संस्कारप्रकाश उक्तः । अत्र च कामकालौ विश्वेदेवौ । “अष्टम्यां कामकालौ" इति शङ्खोकेः । अष्टकापूर्वोत्तरदिनयोरपि च श्राद्धं कार्ये, पूर्वेयुः पितृभ्यो दद्यादपरेधुरन्वष्टक्यमित्याश्वलायन वचनात् । अन्वष्टकासु विशेष उक्तः कात्यायनेन । अन्वष्टकासु नवभिः पिण्डै: श्राद्धमुदाहृतम् | पित्रादि मातृमध्यं च वतो मातामहान्तकम् ॥ यतु ब्रह्मपुराणे । "अन्वष्टकासु क्रमशो मातृपूर्व सहिष्यते” इति मात्रादित्वमुकं, तच्छाखाभेदेन व्यवस्थितिमिति पृथ्वीचन्द्रोदयः । इदं च जीवरिपतृ केणापि सपिण्डमेव कार्ये "अन्वष्टकासु च स्त्रीणां श्राद्धं कार्य तथैव ब" इत्युपक्रम्य - पिण्डनिर्वपणं कार्य तस्यामपि नृसत्तम । इति हेमाद्री विष्णुधर्मोत्तरे पुनः पिण्डदानविधानस्य श्राद्धावधिनैव पिण्डदानप्राप्तौ जीवत्पितृकत्वादिना पिण्डनिवृत्तिप्रसकौ पिण्डदान प्राप्त्यर्थत्वात्, अन्यथाऽऽनर्थक्यापत्तेरिति । अत्र सुवासिन्यपि भोजनीया | भर्तुरने मृता नारी सह दाहेन वा मृता । तस्या स्थाने नियुञ्जीति विप्रैः सह सुवासिनीम् ॥ इति अम्बष्टकां प्रक्रम्य वचमात् । अत्र च सपत्नमातुरपि भाऊं