पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२९९

एतत् पृष्ठम् परिष्कृतम् अस्ति

वृद्धिश्राद्धनिरूपणम् | २८९ पिण्डश्च, नामैक्ये तु द्विवचनादिप्रयोग इति नारायणवृत्तिः । एतच जी वति भर्तरि कार्यम्, मृते तु तस्मिन् लुप्यते "श्राद्धं नवभ्यां कुर्यात् तम्मृते भर्तरि लुप्यस" इति वचनादिति दाक्षिणात्याः । तदसत् । अस्य वाक्यस्य क्वापि महानिबन्धेऽदर्शनात् । एतच्चानुपनीतोऽपि कुर्यात् । तथाचेदमेव प्रक्रस्य- मात्स्ये । एतच्चानुपनीतोऽपि कुर्यास्सर्वेषु पर्वसु । इत्यष्टकान्वष्का श्राद्धनिर्णयः । अथ वृद्धिश्राद्धम् । तन्निमित्तान्याह वृद्धगार्ग्यः । अग्न्याधानाभिषेकादाविष्टापूर्ते स्त्रिया ऋतौ । वृद्धिश्राद्धं प्रकुर्वीत आश्रमग्रहणे तथा ॥ ऋतावाद्य एव । गार्ग्योऽपि । पुत्रोत्पत्तिप्रतिष्ठासु तन्मौञ्जीत्यागबन्धने । चूड़ायां च बिवाहे च वृद्धिश्राद्धं विधीयते । विष्णुपुराणेऽपि । कन्यापुत्रविवाहेषु प्रवेशे नववेश्मनः । नामकर्माणि बालानां चूड़ाकर्मादिके तथा ॥ सीमन्तोन्नयने चैष पुत्रादिमुखदर्शने । मान्दीमुखान्पितृगणान्पूजयेत्प्रयतो गृही ॥ इति । अत्र चूड़ाकर्मादिक इत्यादिपदात्, अनुकानां गर्भाधानोपनयना दीनामपि ग्रहणम् । पुत्रस्यादिमं मुखदर्शनं जन्म पुत्रजन्मेति यावत् । पूर्वोकगार्ग्यादिवचनेषु साक्षात्पुत्रजन्मन एवोपादानात् । वसिष्ठः । पुत्रजन्मविवाहादौ वृद्धिश्राद्धमुदाहृतम् । इति । यशोद्वाहप्रतिष्ठासु मेखलाबन्धमोक्षयोः । पुत्रजन्मवृषोत्सर्गे वृद्धिश्राद्धं समाचरेत् ॥ इति । जाबालिः । ब्रह्मपुराणे । कर्मण्यथाभ्युदयिके माइल्ये चातिशोभने । जन्मन्यथोपनयने विवाहे पुत्रकस्य च ॥