पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३००

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- पितॄन्नान्दमुखानेव तर्पयेद्विधिपूर्वकम् ॥ इति । आभ्युदयिकं = स्वाभ्युदयार्थकर्म, राज्याभिषेक नवग्रहमख महादानादि । माशल्यं = गर्भाधानसीमन्तोन्नयनादि | अतिशोभन इति माङ्गल्यावशेषणं, तेन ब्राह्मण्यश्च वृद्धा जीवत्पत्यो जीवत्प्रजा यद्यदुपदिशेयुस्तत्तः कुर्युः, अथ स्खलूचावचा जनपदधर्मा प्रामधर्माश्च, तानू विवाहे प्रतीयादित्याखलायनसूत्रानुमतस्याचारप्राप्तस्य फलवस्त्रादिभिर्गर्भिणीपूजनोरलवादेर्विवाहाङ्गदरिद्रावन्दनादेश्च व्यावृत्तिः । मत्स्यपुराणेऽपि । २९० उत्सवानन्दसंताने यशोद्वाहादिमङ्गले । मातरः प्रथमं पूज्याः पितरस्तदनन्तरम् ॥ ततो मातामहा राजन्विश्वेदेवास्तथैव च ॥ उत्सवा पुत्र जन्म | आनन्दः = पुंसवनादिः । यज्ञो=ज्योतिष्टोमादिः । मातरः प्रथममिति मातॄणां पित्रादिश्राद्धात्पूर्व कर्त्तव्यता । विश्वेदेवा इति न क्रमपरम् । इदं चोपलक्षणं वैदिककर्ममात्रस्य, अत एवोक्त तत्रैव, "नानिष्ठा तु पितॄन् श्रद्धे कर्म वैदिकमाचरेत्” इति । उपलक्षणत्वे ऽपि च पूर्वोकगार्ग्यवचने पुत्रोत्पत्तीति ग्रहणास्पुत्रोत्पत्तिरेव निमित्तं न तु जातकर्म, तत्र - नाष्टकासु भवेच्छ्रादू न श्राद्धे श्राद्धमिष्यते । न सोप्यन्तीजातकर्मप्रेोषितागतकर्मसु ॥ इति छन्दोगपरिशिष्टे तनिषेधात् । अतश्च प्रहणवनैमित्तिकं श्राद्धं पुत्रजन्मन्यपि भवत्येव न तु कर्माङ्गम् । अत एव - निषेककाले सोमे च सीमन्तोन्नयने तथा । ज्ञेयं पुंसघने श्राद्धं कर्माङ्ग वृद्धिवत्कृतम् ॥ इति पारस्करबचने कर्माङ्गश्राद्धविषयत्वेन जातकर्म नोपान्तं किन्तु वृद्धिवदिति पुत्रजन्मनिमिष्तं श्राद्धं दृष्टान्तत्वेन पृथगेवोपात्तम् । अतएव- यशोद्वाहप्रतिष्ठासु मेखलाबन्धमोक्षयोः । पुत्रजन्मवृषोत्सर्गे- इति जाबालिवचनेऽपि पुत्रजन्मैव गृहीतम् । अत्राधिकारी विष्णुपुराणे | जातस्य जातकर्मादि क्रियाकाण्डमशेषतः । पुत्रस्य कुर्वीत पिता श्राद्धं चाभ्युदयात्मकम् ॥