पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३०१

एतत् पृष्ठम् परिष्कृतम् अस्ति

वृद्धिश्राद्धनिरूपणम् । कात्यायनः । स्वपितृभ्यः पिता दद्यात सुतसंस्कारकर्मसु । पिण्डानोद्वाइनान्तेषां तस्याभावे तु तरक्रमात् ॥ इति । तेषां = सुतानाम् । ओद्वाहनात्=प्रथमविवाहपर्यन्तम् | पिता स्वपितृभ्य पिण्डान्=तदुपलक्षितं वृद्धिश्राद्धं कुर्यात् । तस्य पितुरभावे तु तस्य संस्कार्य[स्य] पितॄणां यः क्रमः तेन क्रमेण पितृव्याचार्यमातुलादिः श्राद्धं दद्यात्, न स्वपितृभ्य इति हेमाद्रिणा व्याख्यातम् । तत्र कालमाह - वसिष्ठः । पूर्वेधुर्मातृकं श्राद्धं कर्माहे पैतृकं तथा । उत्तरेधुः प्रकुर्वीत मातामहगणस्य तु ॥ इति । अत्रिः । पूर्वाह्न वै भवेद् वृद्धिविना जन्मनिमित्तकम् । पुत्रजन्मनि कुर्वीत श्राद्धे तात्कालिकं बुधः ॥ इति । अग्न्याधाननिमित्ते श्राद्धे विशेषकाल उक्तो गालवेन- पार्वणं चापराहे तु वृद्धिश्राद्धं तथाग्निकम् । इति । आग्निकम् =अग्न्याधाननिमित्तं वृद्धिश्राद्धमपरराहे कुर्यादिति । एक- स्मिन्नपि दिने क्रियमाणानां कालभेदेनानुष्ठानं कार्यमित्याह शातातपः । पूर्वाहे मातृकं श्राद्धमपराह्ने च पैतृकम् । ततो मातामहानां च वृद्धौ श्राद्धत्रयं स्मृतम् ॥ एवंविधस्यापि कालभेदस्यासम्भवे आह- वृद्धमनुः । अलाभे भित्रकालानां नान्दीश्राद्धत्रयं बुधः । पूर्वेधुर्वे प्रकुर्वीत पूर्वाह्ने मातृपूर्वकम् ॥ इति । २९१ भौधायनसूत्रे | -- वेदकर्माणि प्रयोज्यम्पूर्वेधुरेव युग्मान् ब्राह्मणान् भोजये. दिति । नाम्दीमुखा नबैता उक्ता भवन्ति, नैकाहेनैव दैवं पित्र्यं च कुर्वीत यस्यैकाढा दैवं पित्र्य च कुर्वीत प्रजा अस्य प्रमायुका मञ्चन्ति तस्मात्पितृभ्यः पूर्वेधुः करोति पितृभ्य एव तद्यशं निःक्रीय यजमानः प्रवतुत इति ब्राह्मणम् । अत्र ब्राह्मणवाक्येऽपि वृद्धिश्राद्धस्यास्थ प्रजाः प्रमायु का अल्प.