पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३०२

एतत् पृष्ठम् परिष्कृतम् अस्ति

२९२ वीरमित्रोदयस्य श्राद्धप्रकाशे- कालजीवनाः भवन्तीति निन्दया एकाहेन कर्त्तव्यताया अप्रशस्तस्वादिनद्वयकर्त्तव्यतायामतिप्राशस्त्यम् । महत्सु कर्मसु पूर्वेधुरल्पेषु तदहरेव- - तथा च गृह्यपरिशिष्टम् - महत्सु पूर्वेस्तददरल्पेन्विति । यदा तु पृथक्करणशक्त्या एकस्मिन्नेव वासर एकोपक्रमेण कर्त्त व्यं तदा वैश्वदेविकमिति प्रकृतिभूते दर्शे । शातातपः । पृथद्विनेष्वशकश्वेदे कस्मिन्पूर्ववासरे। श्राद्धत्रयं प्रकुर्वीत वैश्वदेवं तु तान्त्रिकम् ॥ "अत्र च तन्त्र वा वैश्वदैविक" मिति प्रकृतिभूते दर्शश्राद्धे वैश्व देविकस्य तन्त्रत्वे विकल्पाभिधानात्तद्विकृतिभूते वृद्धिश्राद्धे तन्त्रवि कल्पप्राप्तौ विकल्पनिरासेनात्र तन्त्रतैव नियम्यते" वैश्वदेवन्तु तान्त्रिकम्" इति । मातृपूजने विशेषः- कूर्मपुराणे । पूर्व तु मातरः पूज्या भक्त्या वै सगणेश्वरा इति । मातृणां पूजनं नामानि चोक्तानि - चतुर्विंशतिमते । तिस्रः पूज्याः पितृपक्षे तिस्रः पूज्यास्तु मातृके । इत्येता मातरः प्रोक्ताः पितृमातृष्वसाष्टमी ॥ ब्रह्मण्याद्याः स्मृताः सप्त दुर्गा क्षेत्रगणाधिपाः । वृद्धौ वृद्धौ सदा पूज्याः पश्चान्नान्दीमुखान पितॄन ॥ गौरी पद्मा शची दक्षा सावित्री विजया जया । देवसेना स्वधा स्वाहा मातरो लोकमातरः । एतास्त्वभ्युदये पूज्या आत्मदेवतया सह ॥ लोकमातर इति सर्वासां विशेषणमिति मदनरत्नः । पितृपक्षे पितृवर्गे | तिलो = मातृपितामहीप्रपितामहाः पूज्याः | तथा मातृके= मातामहवर्गे । तिम्रो = मातामहीमातुः पितामहीमातुः प्रपितामयः । पितृमातृष्वसाष्टमी= पितृष्वला सप्तमी मातृष्वसाष्टमी व पूज्या इत्यष्टौ मनुष्यमातरः प्रो- काः। एताच प्रत्यक्षाः प्रत्यक्षमेच कुङ्कुमकुसुमवस्त्राभरणभोजनैः पू.