पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३०५

एतत् पृष्ठम् परिष्कृतम् अस्ति

वृद्धिश्राद्धनिरूपणम् | क्रमास्कोशकपाले च पीयूषं च सपाशकम् । आश्रित्य यस्कराप्राणि विजयन्ते जया च सा ॥ तत्वसागरसंहितायाम् | दर्पणं पङ्कजं पद्म पुष्टिकदधतीं स्मरेत् । पुष्टी लक्ष्मी सितां सौम्यां पङ्कजासनसंस्थिताम् ॥ बज्रं पद्मं तथा दर्श पीयूषदधती स्मरेत् । साया तुष्टिर्महालक्ष्मीः स्थिता वीरासनोपरि ॥ विनायक प्रतिमास्वरूपं मत्स्यपुराणे- स्वदन्तं दक्षिणकरे उत्पनं [ चाक्षसूत्रं ] तथापरे । लड्डुकं परशु चैव वामतः संप्रकल्पयेत् । संयुक्तं बुद्धिऋद्धिभ्यामघस्तान्मूल कान्वितम् । तदेवं विशेषतः कासांचिम्मातॄणां स्वरूपं प्रदर्शितम् । सामान्याकारेण तु सर्वासां स्वरूपं पञ्चरात्र उक्तम् । पूज्याचित्रे तथार्चायां वरदाभयपाणयः ॥ इति । एवं मातृकापूजनं वसोधरापर्यन्तं कृत्वा नान्दीश्राद्धं कार्यम् । तच नवदेवत्यम् । मातरः प्रथमं पूज्याः पितरस्तदनन्तरम् । ततो मानामहानां च वृद्धौ श्राद्धत्रयं स्मृतम् || इतिमारस्यात् । कात्यायनवचने- २९५ षड्भ्यः पितृभ्यस्तद्नु श्रद्धदानमुपक्रमेत् । वसिष्ठोको विधिः कृत्स्नो द्रष्टव्योऽत्र निरामिषः ॥ इत्यत्र षड्भ्य इति षड्ग्रहणं मातृवर्गस्याप्युपलक्षणं मातरः प्रथममिति वाक्यात् । अभिषे = मांसं, तद्वर्जित इति । अत्र नान्दीमु कान्पितृम्पूजयेदित्यत्र नान्दीमुखाः = स्वपितृपितामह प्रपितामहाः । अत्र के चिनान्दीमुखानां पितॄणां देवतात्वाभिधानाद्येषां नान्दी मुखसंज्ञा विहितास्ति ब्रह्मपुराणे तेषामेव देवतात्वम् । तथा च- ब्रह्मपुराणम् । पिता पितामहश्यैष तथैव प्रपितामहः । त्रयो ह्यश्रुमुखा होते पितरः संप्रकीर्तिताः ॥ तेभ्यः पूर्वतरा ये च प्रजावन्तः सुखैधिताः । ते तु नान्दीमुखा नाम पितरः परिकीर्तिताः ।