पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३०६

एतत् पृष्ठम् परिष्कृतम् अस्ति

२९६ वीरमित्रोदयस्य श्राद्धप्रकाशे- अत्र पित्रादीनां त्रयाणामश्रुमुखा इति संज्ञा, प्रपितामहपित्रादीनां त्रयाणां नान्दीमुखा इति संज्ञा, तस्मादृद्धिश्राद्धे वृद्धप्रपितामहादय एव नान्दीमुखास्त एव च देवता इत्याहुः । तन्न | "स्वपितृभ्यः पिता तद्यात्सुतसंस्कारकर्मसु" इति छन्दोग परिशिष्टवचनात्, “पूर्वेयुमातृक श्राद्धं कर्माहे पैतृकं स्मृत"मिति वसि ठोकत्वात्, “एवं प्रदक्षिणावृत्को वृद्धौ नान्दीमुखान्पितॄन " यजेतेति याज्ञावल्क्यवचनात्, नान्दीमुखाः पितरः पितामहाः प्रपितामहश्चेतिका व्यायनवचनात्, नान्दीमुखेभ्यः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यश्चे ति गोभिलवचनात्, नान्दमुखं पितृगणं पूजयेत्प्रयतो गृहीति विष्णुपुराणे, तस्मारिपतृभ्यः पूर्वेयुः करोति पितृभ्य एव तद्यक्षमिति पूर्वो दाहतब्राह्मणाच्च, पित्रादित्रिकस्यैव देवतात्वप्रतीतेः । नाम्दीमुख संज्ञा परं तेषामपि वाचनिकी । तेन पित्रादीनां त्रयाणामेव वृद्धौ देवतात्वं नान्दीमुखत्वं चेति । अत्र च पित्रादीनां देवतानां नान्दीमु खत्वस्य गुणत्वात्तद्विशिष्टाना मेवोलुखः, यथाग्नये दात्र इन्द्राय प्रदाने विष्णवे शिपिविष्टायेत्यत्राग्त्यादीनां देवतानां 'दात्रादिगुणविशिक्ष नामेषोल्लेख इति । प्रपितामहपित्रादीनां तु नान्दोमुखश्वस्य गुणस् भावात्रोल्लेख इत्यये स्फुटम् । किल। माता पितामही चैव संपूज्या प्रपितामही । पित्रादयस्त्रयश्चैव मातुः पित्रादयस्त्रयः || एते नवार्चनीयाः स्युः पितरोऽभ्युदये द्विजैः । इत्याइवलायनवचने स्पष्टमेव मात्रादीनां पितृपितामहप्रपितामहानां मातामहादीनां नवानामभ्युदये देवतात्वाभिधानात् । तथा "मातृपूर्वाम्पितॄत्पूज्य ततो मातामहानपि" इति चतुर्विंशतिमते, तथानान्दौमुखा पितर इति कात्यायनवचनेऽपीति कः प्रसङ्ग उत्तर- त्रिकस्य । किञ्च - नाम्दीमुखे विवाहे च प्रपितामहपूर्वकम् । नाम संकीर्तयेद्विद्वानन्यत्र पितृपूर्वकम् || इति वृद्धवसिष्ठवचने पितृपितामहप्रपितामहानामेव देवतावे प्रातिलोम्यक्रमो घटते वृद्धौ प्रपितामहपितामहपितर इति व्यु