पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३०७

एतत् पृष्ठम् परिष्कृतम् अस्ति

वृद्धिश्राद्धनिरूपणम्। त्क्रमः आमावास्यादौ तु पितृपूर्वकं पितृपितामहप्रपितामहा इति क्रमः । उत्तरत्रिकस्य तु देवताखे प्रपितामहपदं प्रपितामह [ प्रपितामह ] परं स्यात् पितृपदं च वृद्धप्रपितामहपरं स्यादिति । किञ्च पितृ- पितामहप्रपितामहानामेव देवतात्वे भवति जीवत्पितृकस्याप्यधि- कारः । तथा हि । "येभ्य एव पिता दद्यात्तभ्यो दद्यात्तु तत्सुतः" इत्यनेनाधिकारे सिद्धे विष्णुकः पितरि जीवति यः श्राद्धं कुर्याद्ये पिता कुर्यादित्युक्त्वा त्रिषु जीवत्सु नैव कुर्यादिति निषेधोऽनर्थक एव त्रयाणां देवतात्वपक्षे तेषां जीविश्वे भवत्यर्थवान्निषेधः । यदा तू तरेषां देवतात्वं तदा त्रयाणां जीवनेऽजीवने वा उत्तरेषामेव प्राप्तत्वादयो निषेधोऽनर्थक एव । किश्च विष्णूकः प्रयोगनियमोऽपि पूर्वेषां देवता घटते नोत्तरेषां यथा "यस्य पिता प्रेतः स्यात्स पित्रे पिण्डं निधाय पितामहात्पराभ्यां द्वाभ्यां दद्यात्" इत्यत्र पित्रे प्रपितामहाय च पिण्डदानं तयोर्देवनाश्वे सङ्गच्छते नान्यथेति किम्भूयो विस्तरेण । वृद्धप्रपितामहादीनां संज्ञाकरणं तु प्रोष्ठपदश्राद्ध एव देवतात्वार्थ, तेषामन्यत्र देवतास्खे प्रमाणाभावात् । उक्तं च तत्रैव । नान्दीमुखानां प्रत्यब्द कन्याराशिगत रवी । पौर्णमास्यां तु कर्त्तव्यं वराहवचनं यथा ॥ इति । अत उदाहृतेषु वचनेषु मातामह्यादित्रिदेवत्यमुक्तम् । चतुर्थमपि पार्वणं कर्त्तव्यतयोक्तं- चतुर्विंशतिमते । पूजयेश्च ततः पश्चात्तत्र नाम्दीमुखान् पितॄन् । मातृपूर्वान्पितृन् पूज्य ततो मातामहानपि ॥ मातामहस्ततः कोचियुग्मा भोज्या द्विजातयः । मातृवर्गे चतुरादियुग्मसंख्याका ब्राह्मणा भोजनीयाः । तथा च मातृवर्गे चत्वारो मातामहीवर्गे चत्वारः । उक्तं च- भविष्यपुराण | भोजयेद्विजानष्टो मातृश्राद्धे खगेश्वर । इति । असम्भवे त्वेकैकस्मिन्वर्गे द्वौ द्वावपि भोजनीयौ - तथा च पद्मपुराणे । युग्मा द्विजातयः पूज्या वस्त्रकार्तस्वरादिभिः । वो० मि ३८