पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३०८

एतत् पृष्ठम् परिष्कृतम् अस्ति

२९८ वीरमित्रोदयस्य श्रद्धप्रकाशे- कार्तस्वरं= सुवर्ण- छागलेयः । एकैकस्य तु वर्गस्य द्वौ द्वौ विप्रो समर्चयेत् । वैश्वदेव तथा द्वा च न प्रसज्येत विस्तरः ॥ इति । एवं चाष्टौ ब्राह्मणाः सम्पद्यन्ते । भविष्यपुराणे तु नवमोऽप्युक्तः- पूर्वाह्ने भोजयेद्विप्रानष्टौ सर्व प्रदिक्षणम् । तथैव नवमं विप्रं चतुरस्त्रे खगोत्तम ॥ इति । विप्राणां चरणक्षालनार्थ गोमयेन क्रियमाणे चतुरको मण्डले तत्काले यः कश्चिदतिथिरागच्छन् स नवमोऽपि भोजनीय इत्यर्थः । मातृवर्गे मतामहीवर्गे वा ब्राह्मणालाम पनिपुत्रान्विताश्चतस्रवतत्रः सुवासिन्यो भोजन या इत्युक्त वृद्धवशिष्ठेन । मातृश्राद्धे तु विप्राणामलाभं पूजयेदपि । तु पतिपुत्रान्विता भव्या योषितोऽष्टौ मुदान्विताः ॥ इति । नान्दश्रिाद्धस्य वैश्वदेविक पूर्वकस्वमुक्तं वृद्धशातापेन । “प्रदक्षिणं तु सध्येन भोजयेद्देवपूर्वक "मिति । वृद्धेश्राद्धे च सत्यवसुसंशका विश्वदेवाः । अत्र कल्पत हकारेणामिाहतमाभ्युदयिकप्रस्तावे- मार्कण्डेयपुराणे | वैश्वदेवविहीनं तु केचिदिच्छन्ति मानवाः । इति । हलायुधस्तु मातृश्राद्धं देवरहितमेव च कार्यमित्याह इति शूलपा- | वृद्धिश्राद्धेऽन्येऽपि धर्माविशेषाः प्रतिपाद्यन्ते । तत्राह - यो शातातपः । कर्तव्य चाभ्युदयिकं श्राद्धमभ्युदयार्थिना | सब्येन चोपवतेन ऋजुदर्भैश्च धीमता ॥ पितॄणां रूपमास्थाय देवा ह्यनं समश्नुते । तस्मारलव्येन दातव्यं वृद्धिश्राद्धे तु नित्यशः ॥ यथैवोपचरेद्देवांस्तथा वृद्धौ पितृनपि । समश्नुते समश्नुवत इत्यर्थः । अत्र तिलकार्ये यवविनियोगः कार्यः । तथा च । विष्णुधर्मोत्तरे । - वृद्धिश्राद्धेषु कर्तव्यास्तिलस्थाने यवास्तथा ॥ इति ।