पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३०९

एतत् पृष्ठम् परिष्कृतम् अस्ति

वृद्धिश्राद्धनिरूपणम् । पित्र्यधर्मस्थाने घर्मान्तरप्रयोगस्तू के ब्रह्माण्डपुराणे | - स्वाहाशव्दं प्रयुञ्जीत स्वधास्थाने तु बुद्धिमान् । कुशस्थाने तु दूर्वाः स्युर्मङ्गलस्याभिवृद्धये ॥ इति । मार्कण्डेयपुराणे । २९६ उदङ्मुखः प्राङ्मुखो वा यजमानः समाहितः । वृद्धिश्राद्धं प्रकुर्वीत नान्यवक्त्रः कदाचन ॥ इति । अत्रोदङ्मुखत्वप्राङ्मुखत्वयोर्व्यवस्थोक्ता आश्वलायनगृह्य परिशिष्टे । अभ्युदये युग्मा ब्राह्मणाः, अमूला दर्भा, प्राङ्मुखेभ्य उदङ्मु खो दद्यात् उदङमुखेभ्यः प्राङ्मुखो द्वौ दर्भों पवित्र इति । आह - शातातपः । अपसव्यं न कुर्वीत न कुर्यादप्रदक्षिणम् । अपसव्येन यो दद्याद्धौ किञ्चिदतिक्रमात् ॥ न तस्य देवास्तृप्यन्ति पितरश्च यथाविधि । एतथा पित्र्यधर्मविवर्जितदैवधर्मयुक्तं नान्दीश्राद्धमित्थं कार्यम् । आह - जातकर्ण्यः । पूर्वेधुस्तहिने वाथ देवपूर्व निमन्त्रणम् | कृत्वा विप्रान्समाहूय पूर्वाह्ने नियतः शुचिः || कृत्वा मण्डलकं तेषां क्षालयेञ्चरणांस्ततः । आचान्तान्कृत सत्कारानासनेषूपवेशयेत् ॥ लोककात्यायनोऽपि । अतः परं प्रवक्ष्यामि विशेष इह यो भवेत् । प्रातरा मन्त्रितान्धिप्रान्युग्मानुभयतस्तथा ॥ उपवेश्य कुशान्दद्यादृजुनैव हि पाणिना | अस्यार्थः पूर्वेधुस्तदहव निमन्त्रितान्धिप्रान्प्रातरेव पूर्वाह्न एवा. हूय चरणक्षालनानन्तरमृजुदर्भोंपकल्पितासने उपवेशयेत् । उभयत इति = चतुरः पूर्वाभिमुखानेकत उपवेश्य, अन्यतश्चतुर उदङ्मुखानु पवेशयेत् । तथा च भविष्यपुराणे | प्राङ्मुखांचतुरश्चैव चतुरश्च उदङ्मुखान् । निवेश्य ऋजुभिर्दर्भेदद्यादासनमादरात् || इति ।