पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३११

एतत् पृष्ठम् परिष्कृतम् अस्ति

वृद्धिश्राद्धनिरूपणम् | यज्ञोपवीतित्वं, देवतीर्थं चेति । ज्येष्ठस्य प्रथमोपवेशितस्य उत्तर उपरि करो हस्तो येषां प्रथमोपवेशित विप्रस्य करः पश्चादुपवेशितविप्रकरस्योपरि यथा भवति तथा कृत्वेत्यर्थः | कराप्रामपवित्रकान् = करानेऽग्रं पवित्रस्य येषां विप्रकरे प्रागग्रं पवित्र धृत्वेत्यर्थ । द्वयोर्द्वयोर्हस्तौ संयोज्य तत्र प्रागनं पवित्रं स्थापयित्वा एकैकस्मिन्मातृपित्रादिवर्गे वैश्वदेविके च सकृदेवाघः प्रदेयो नैकैकस्य विप्रस्य कर इति निष्कृ ष्टोऽर्थः | अर्धपात्रे तिलस्थाने यवप्रक्षेपे तिलोऽसीत्ययं मन्त्रो यवोऽ- सीत्यूहविशिष्टः प्रयोक्तव्य इत्युक्तमाश्वलायनगृह्यपरिशिष्टे । द्वौ दर्भों पवित्रे सोपयामानि पात्राणि चत्वारि | उपयाम= उपग्रह, पात्राघस्तात्कुशधारणरूपः । शन्नो देवत्यनुमन्त्रितास्वप्सु बवानावपति । “य वोऽसि सोमदेवत्यो गोसवो देवनिर्मितः । प्रत्तमद्भिः पृतः पुष्ट्या ना- न्दीमुखा लोकान्प्रीणयाहि नःस्वाहेति । विश्वेदेवा इदं वोऽध्ये नान्दी- मुखाः पितर इति यथालिङ्गमर्ग्यदानं पितरः प्रीयन्तामित्यपां प्रतिग्रह. णं विसर्जन च, एवमुत्तरयोरपि पितामहप्रपितामहयोः, नित्यं चाग्नौ करणं स्वाहाकारेण होमश्च "अतो देवा अवन्तु न ” इस्यङ्गुष्ठग्रह इति । अत्राश्वलायन कारिकापि । तिलोऽसीति पदस्थाने बवोऽसीति पदं वदेत् । स्वधयेति पदस्थाने पुष्टया शब्दं वदेदिह ॥ इति । अर्घदानं चावाहनपूर्वकं कार्यम् । आवाहनप्रकारे- ब्रह्मपुराणे । नान्दीमुखान्पितम्भक्त्या साञ्जलिश्च समाहयेत् । पठेत्पवित्र मन्त्रं तु विश्वेदेवास आगत ॥ इति । अर्धदानं च सत्यव सुसंशका विश्वेदेवाः इदं घोऽधै नान्दीमुखाः १ पितरः इदं वोऽर्घमित्येवं रूपं कार्यम् आश्वलायनगृह्यवचनात् । 'अपः प्रथमपात्रस्थाः स्वाहा इति मन्त्रिता” इति प्रयोगपारिजातकार- लिखनात्स्वाह । इत्येवं रूपं चार्धदानम् । अर्धदानानन्तरं गन्धपुष्यादिकं देयम् । भविष्यपुराणे । कृत्वा यवैस्तिलार्थ तु दद्यादर्घे विधानतः । गन्धपुष्पादिकं सर्वे कुर्बाद्वीरप्रदक्षिणम् ॥