पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३१२

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- ब्रह्मपुराणेऽपि । अर्धे पुष्पं च धूपं च प्रशस्त मनुलेपनम् । वासश्चाप्यतं शुद्धं देयं च सदृशं समम् ॥ अत्र दीपमित्यपि वक्तव्यम् । गम्बमाल्यपुष्पधूपदीपाच्छादनाना प्रदानमित्याश्वलायनसूत्रितत्वात् । इदं च गन्धादि कमेकैकस्य हस्ते द्विः विदयम् । ३०२ तथा चाश्वलायनगृह्यपरिशिष्टे । प्रदक्षिणमुपचारो यवैस्तिलार्थः सर्वे द्विर्द्विरिति । अत्र च सर्व द्विर्द्विरिति वचनाद्गन्धादिपञ्चकस्यापि द्विर्द्विन मित्येव प्रतीयते द्विभुक इत्यत्रेव द्विर्द्विरिति सुचः क्रियाया आवृत्तौ विहितत्वाद् द्वन्यावृत्ति बिना तु कियावृत्तेरनुपपनस्वात्तेन गन्धादिव द्वालोद्वयमपि देयम् । सममिति वस्त्राविशेषणादपि द्वित्वप्रतीतिरिति केचित् । अन्यच्च- भविध्यपुराणे | रक्तपुष्पतिलांश्चैव अपसव्य च वर्जयेदिति । इदं च गन्धादिभिरभ्यर्चनं पदार्थानुसमयेन काण्डानुसमयेन वेति बोध्यम् । गन्धादिदानानन्तरं चाग्नौकरणं कर्त्तव्यम् । गृह्यपरिशिष्टे । नित्यं चानौ स्वाहाकारेण होमश्चेति । तत्रैव पाणौ होमः, अग्नये कव्यवाहनाय स्वाहा । सोमाय पितृमते स्वाहा इति । तथा वृषदाज्यमिश्र उष्णो हविः सर्वत्र तस्यान द्वे द्वे माहुती जुहुयादिति । सर्वत्रेत्यग्नौकरणद्विजभोजन विकिरणपि. ण्डदानेषु दधिमिश्रमाज्यं पृषदाज्यं तन्मिश्र मोदनो हविः श्राद्धद्रव्यं तस्यौदनस्य पूर्वापरार्द्धे विभागं कल्पयित्वा द्विरवदाय, होमः कार्य इत्यर्थः । अत्र च कश्चिद्विशेषो- ब्रह्मपुराणे । - रक्षोनीर्जुहुयाद्वहौ समिदर्थे महौषधीः । तिलार्थ तत्र विकिरेत् प्रशस्तांश्च तथा यवान् ॥ अत्र तिलकार्ये यवविधानवत्समित्कार्ये औषधविधानं "घृताकाः समिधो हुत्वा दक्षिणाग्राः समन्त्रका" इत्यमेन प्रकृतिश्राद्धे वि.