पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३१३

एतत् पृष्ठम् परिष्कृतम् अस्ति

वृद्धिश्राद्धनिरूपणम् | हितो यः समित्साधनको होमस्त[स्थ] रक्षोऽन्यौषधीनां साधनत्वं वि घीयत इति । रक्षोध्न्यच पलाशशङ्क्षिनीविष्णुकान्ताद्याः । अग्नौकरणानस्तरं पात्रपरिवेषणीयमनमुकं- भविष्यपुराणे | वृषदाज्येन संयुक्तं दध्यादोदनमादितः । पायसं च यथाभव्यं मोदकादिरसोत्तरम् || मधुरं भोजनं दद्यान्न चाम्लं परिवेषयेत् | ब्रह्माण्डपुराणेऽपि । मङ्गल्यं भक्ष्यभोज्यादि दद्यादनं पृथग्विधम् । गुडमिश्रं खगश्रेष्ठ साज्यं चैवौदनं परम् ॥ रसालान्मोदकांश्चेवन चाम्लकटुकादिकम् । आदिशब्दादुद्रजकतिक्ताांदरससंग्रह "मधुरं भोजन दद्यात्" इति प्रालिखितवचनात् । ब्रह्मपुराणे | तथा । अनं दद्याच्च दैवेन तीर्थेन च जपेत् स्वधाम् । द्राक्षामलकमुलानि यवांश्चाथ निवेदयेत् | मूल=आद्रकाहीति कल्पतरुः | सव्यजानुनिपातनं च [ न ] कर्त्त व्यमित्याह - लोककात्यायनः । निपातो न हि सव्यस्य जानुनो विद्यते कचित् । अत्र च "अतो देवा" इति मन्त्रेणाङ्गुष्ठग्रहणम् । उक्तं चाश्वलायनगृहये "अतो देवा अवन्तु न ” इत्यङ्गुष्ठग्रहणमिति । भुखानेषु विशेषु जपो. ऽपि तत्रैवामिहितः, पावमानी: शंवती रौद्री चाप्रतिरथं च भाव यीत । शवतीः=शन इदानी इत्यादि । रौद्री= रुद्राध्यायादि | अप्रतिरथम्= आशुः शिशान इति । ब्रह्मपुराणे | पठेत शाकसुकं तु स्वस्तिसुक्तं शुभं तथा । युक्तमश्रुमुखानां तु न पठेत्पितृसाहताम् । शाक्रसूकम् = आशुः शिशान इत्यादि । स्वस्तिसूकं = स्वस्ति शब्दयुक्तस्वस्थ्ययनं तार्क्ष्यमित्यादि | शुभं=नराशंसप्रधानं किञ्चिहग्यजु प्रभु