पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३१४

एतत् पृष्ठम् परिष्कृतम् अस्ति

३०४ वीरमित्रोदयस्य श्राद्धप्रकाशे- तिकं तदपि पठेदिति हेमाद्रौ । तथा पठेच्छकुनिसूक्तं स्विति ब्राह्म । शकुनि सूत=कनिक्रदजुनुषमित्यादिकम् । श्लोक कात्यायनः । न चाश्नत्सु जपेदत्र कदाचित्पितृसंहिताम् । अन्य एव जपः कार्यः सोमसामादिकः शुनःः॥ इति । सोमसामादिकः=सोमसामत्वेनैव प्रसिद्धः । आह - प्रचेताः । न जपेत्पैतृकं जापं न माँसं तत्र दापयेत् । अत्र जपशव्दाद् भुञ्जानेषु द्विजेषु यः पितृलिङ्गकानां मन्त्राणां जपः स एव निषिध्यते न पदार्थानुष्ठान करणीभू नानां मन्त्राणां निवृत्तिः । यस्मिन्कर्माणि यस्य मन्त्रस्य करणता नियम्यते तम्मन्त्रनिवृत्तौ त स्कर्मसाद्गुण्ये प्रमाणाभावात् । तेन पितृलिङ्गकमन्त्रकरणकं कर्म त नमन्त्रणैव कार्य अन्यथा तदकृतमेव स्यादिति । इदमेवाभिप्रेत्योक्तं- जातूकर्ण्यन --- पितृलिङ्गेन मन्त्रेण यत्कर्म मुनिभिः स्मृतम् । तैनैव तद्विधातव्यममन्त्रमकृतं यतः ॥ इति । कात्यायनः- सम्पन्न मिति तृप्ताः स्थ प्रश्नस्थाने विधीयते । सुसंपन्नमिति प्रोक्ते शेषमन्न निवेदयेत् ॥ तृप्तास्थेति प्रश्नस्थाने सम्पन्नमित्येवं रूपः प्रश्नः आह श्लोककात्यायनः । मधुमध्विति यस्तत्र त्रिर्जपोऽशितुमिच्छताम् । गायत्र्यनन्तरं सोऽत्र मधुमन्त्रविवर्जितः ॥ इति । अस्यार्थः अशितुमिच्छतां विप्राणां सन्निधो गायत्र्यनन्तर मधुमती पाठानन्तरं यो मधुमधुमधुइति त्रिवारं शब्दप्रयोगरूपो जपो विहितः स मधुमन्त्रविवर्जित = मधुब्शता इति पाठविवर्जितः । गायत्रीपाठोत्तरं मधुमतीस्थाने उपास्मै गायता नर इति पञ्चर्चे अक्षन्नमीमदन्तेति च षष्ठीमृचं आवयित्वा ततो मधुनधुमध्विति त्रिजेपेत् । तथाचोक माश्वलायनेन । मधुव्वाता ऋनायत इति तृवस्थाने उपास्मै गायत्ता नर इति पञ्च, मधुमतीः भावयेत् | अक्षत्र मीमदम्तेति च षष्ठीमिति ।