पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३१५

एतत् पृष्ठम् परिष्कृतम् अस्ति

वृद्धिश्राद्धनिरूपणम् । ब्रह्मपुराणे । कचि संपन्नमेतन्मे तान्पृच्छेच्च प्रहर्षितान् । सुसम्पन्नं च ते बूयुः सर्वे सिद्ध ततः क्षिपेत् ॥ सर्वजातीयसिद्ध मन मेकपात्रे समुद्धृत्य विकिरं कुर्यादित्यर्थः । वैवे तु तृतिप्रश्ने रोचत इति विशेषो लिखितो- वृद्धवसिष्टेन तृप्तिप्रश्ने तु सम्पन्नं दैवे रोचत इत्यपि । भविष्यपुराणे । एवं भुक्तेषु विप्रेषु दधात्पिण्डान्समाहितः । इध्यक्षतविमिश्रांस्तु बद्रैश्च खगाधिप । अक्षताःव्यवाः । “अक्षतार्थ पवा" इति कोशात् । विष्णुधर्मोत्तरेऽपि ।- दधिकर्कन्धुसंमिश्रान्तथा पिण्डांश्च निर्वपेत् । याज्ञवल्क्यः | एवम्प्रदक्षिणावृत्को वृद्धौ नान्दोमुखाम्पितॄन | यजेत दद्धिकर्कन्धुमिधान् पिण्डाम्यवैः क्रियाः || [ अ १ श्राद्धप्र० श्लो० २५० ] प्रदक्षिणा आवृदनुष्ठानपद्धतिर्यस्यासौ प्रदक्षिणावृत्कः प्रदक्षिणमुपचार इति यावत् | ब्रह्मपुराणेऽपरो विशेषः । शाल्यनं दविमध्वकं बदराणि यवांस्तथा । मिश्रोत्यानुचत्वारि पिण्डान् श्रीफलसन्निभान् ॥ दयानन्द्रीमुखेभ्यश्च पितृभ्वो विधिपूर्वकम् । ३०५ कात्यायनः । सर्वस्मादनमुद्धृत्य व्यञ्जनैरुपसिव्य च । उपसेचनम् = उपरि प्रक्षेपः । संयोज्य वचकर्कन्धुदधिभिः प्राङ्मुखस्ततः । अवनेजनवरिपण्डान्कृत्वा बिल्वप्रमाणकान् ॥ तस्पात्रक्षालनेनाथ- पुनरव्यवनेजवेत् । पिण्डपात्रस्यमधोमुखस्थापनं न कर्त्तव्यमित्याह- वसिष्ठः ।। बी० मि ३९