पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३१७

एतत् पृष्ठम् परिष्कृतम् अस्ति

वृद्धिश्राद्धनिरूपणम् | अक्षय्यं च ततः कुर्य्यादैव पूर्व विधानतः । षष्ठ्यैव नित्यं तत्कुर्यान्न चतुर्थ्या कदाचन ॥ प्रार्थनासु प्रतिप्रोक्ते सर्वास्वेव द्विजोत्तमैः । पवित्रान्तर्हितान्पिण्डान् सिञ्चेदुत्तानपात्रकृत् ॥ प्रार्थनासु प्रोक्षितमित्यादिप्रतिप्रोके अस्तु सुप्रोक्षितमित्युत्तरिते सति अर्धपात्रसम्बन्धिपवित्राच्छादितान्पिण्डान् "ऊर्जे वहन्ती" रि त्यनेन सिञ्चोदित्यर्थः । युग्मानेव स्वस्तिवाच्याङ्गुष्ठप्रहणं सदा । कृत्वा पुर्यस्य विप्रस्य प्रणम्यानुवजेततः ॥ धुर्यः=पङ्किमृर्जन्यः | ब्रह्मपुराणे । प्राङ्मुखांस्त्वथ वै दर्भान्दद्यात्क्षीरावनेजनमिति || इदमवनेजनं विप्रहस्ते जलस्थाने क्षीरदानमात्रमिति, क्षीरस्फ. लातिशयार्थमिति शूलपाणिः । शातांतपः । मान्दमुखास्तु पितरस्तृप्यन्तामिति वाचयेत् । अशान्योऽपि विशेषः कात्यायनेनोकः । प्रागञेषु च दर्भेषु आद्यमामन्य पूर्ववत् । अपः क्षिपन् मूलदेशेऽवनेनिश्चेति निस्तिलाः ॥ निस्तिला इत्यस्माद्विशेषणात्सयवाः कार्या इत्यर्थः । तिलकार्ये यव विधानात् । द्वितीयं च तृतीयं च मध्यदेशाप्रदेशयोः । पूर्वाश्रेषु दर्भेषु दर्भमुले पितॄन, दर्भमध्यभागे पितामहान् दर्भा प्रदेशे प्रपितामहानित्यर्थः । मातामहमभृतस्तु एतेषामेव वामतः । उत्तरोत्तरदानेन पिण्डानामुत्तरोत्तरः ॥ मवेदधश्च करणाद्धरः श्राद्धकर्मसु । तस्माच्छ्राद्धेषु सर्वेषु वृद्धिमत्स्तिरेषु च ॥ मूलमध्यप्रदेशेषु ईषत्सतांश्च निर्वपेत् । गन्धादीनिक्षिपेत्तूष्णीं तत आचमयेद् द्विजान् || पिण्डानामुत्तरोत्तरदानेन=प्रागपवर्गप्रदानेन, यजमान उत्तरोत्तरो भवेद थिकेभ्योऽधिको भवेत् । पिण्डानामधःकरणात् = प्रत्यगपवर्गदानात्