पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३१८

एतत् पृष्ठम् परिष्कृतम् अस्ति

३०८ वीरमित्रोदयस्य श्राद्धप्रकाशे- अधरो=नचिः पापीयान्भवेदित्यर्थः । ईषरसक्तान् = ईषरपरस्परं लग्नान् । तूष्णीमिति=पिण्डे गन्धादिदाने मन्त्रनिवृत्तिः । अन्यत्र वृद्धिश्राद्धाति रिके भाद्धे यवराहित्यात्तिलसहितो विधिः दक्षिणाप्रवणोदेशो दक्षिणाभिमुखो यजमानः दक्षिणात्राः कुशाः | वृद्धिश्राद्धे तु यवस हितो विधिः । प्राक्प्रवणादिर्हेशः । प्राङ्मुख उदङ्मुखो वा यजमानः । प्रागग्राः कुशाः । “मातामहप्रभृतींस्तु एतेषामेव बामत" इत्यत्र यजमानस्य प्राङ्मुखत्वे पितृपिण्डानां वामती दक्षिणस्यां शिश मातामहादिपिण्डाः । तेन प्रादक्षिणोपचारोऽनुगृहीतो भवति । पदोदङ्मुखो यजमानो ददाति तदा पितृपिण्डानां प्राग्दिशि माता- महादीनां पिण्डदानम् । तत्रापि पितृपिण्डानां प्राग्दिगेव बामो भागः । एवं सति तत्रापि प्रदक्षिणमुपचारोऽनुगृहीतो भवति । अत एव पिण्डदाने पितॄणां ध्यानप्रस्तावे | आत्माभिमुख मासांना ज्ञानमुद्रा निरायुधाः । वसवः पितरो शेया रुद्रास्तत्र पितामहाः ॥ पितुः पितामहाः प्रोक्ता आदित्या बर्हिषि स्थिताः । इति वाक्यात्प्राङ्मुखस्थस्य कर्त्तुराभिमुख्येनोपविष्टानां पितॄणां दक्षिणादिगेव वामभागो भवति । एवमुदङ्मुखस्य कर्तराभिमुखये- नोपविष्टानां पूर्वदिगेव वामभागो भवति । तेन पितृपिण्डेभ्यो दक्षि पदिश्येव मातामहपिण्डदानमिति । तथा स एव- अक्षय्योदकदानं च अर्धदानवदिष्यते । षष्ठयैव नित्यं तत्कुर्यान चतुर्थ्या कंदाचन ॥ प्रपितामहसंज्ञाश्च नाम्दीमुख्यश्च मातरः | मातामह्यः पितामह्यः प्रमातामा एवं व ॥ मातामहेभ्यश्च तथा नान्दचित्भ्य एव हि । प्रमातामहसंशेभ्यो भवद्भिश्चे स्वघोच्यताम् | अस्तु स्वधेति ते तं च जल्पन्ति प्रहसन्ति व विश्वेदेवाश्च प्रीयन्तामिति दाता ब्रवीति तान् प्र प्रीता भवन्तु ते तं च वदन्ति मधुराक्षरम् । त्यमृषु वाजिनमिति पठंस्तांश्च विसर्जयेत् ॥ अर्वेदानवदिति ज्येष्ठोत्तरकरत्वातिदेशार्मोन तु· तन्त्रतादित्यर्थः ।