पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३१९

एतत् पृष्ठम् परिष्कृतम् अस्ति

वृद्धिश्राद्धनिरूपणम् । अर्धेऽक्षय्योदके चैव पिण्डदानेऽवनेजने | तन्त्रस्य विनिवृत्तिः स्यात्स्वधावाचन एव च ॥ इत्यनेनैव प्राप्तत्वात् । प्रचेताः । प्राङ्मुखो देवतीर्थेन वृद्धौ परिचरेत्पितॄन् । सव्येनैवोपनीतेन क्षिप्रं विप्रविसर्जनम् ॥ प्रिमियतः पार्वणषत् न सूर्यास्तं प्रतीक्षेतेति । स्वधेस्यत्रापि स्वाहा शब्द प्रयोज्यः, न स्वघेति। "न स्वधां प्रयुञ्जीत" इति कास्या- यनवचनात् । शूलपाणिस्तु स्वधेति शाखाभेद्व्यवस्थितमित्याह । य[त]न्तु बहुषु कात्यायनाश्वलायनगोभिलाद्युक्तसूत्रेषु बहुषु स्मार्तवचनेषु च स्वधाराब्दस्य निषिद्धत्वाद्विचार्य श्रद्धातव्यमिति | ब्रह्मपुराणे । द्राक्षामलकमूलानि यवांश्चाथ निवेदयेत् । तान्येव दक्षिणार्थं तु दद्याद्विप्रेषु सर्वदा ॥ इत्यत्र यवानां तिलार्थेऽपि दानं भक्षणार्थे दक्षिणार्थेऽपि दामं प्रसकं तद्यथायोगं भृष्टरूपेण स्वरूपेणैव वा विधेयम् । दधेिबदराक्ष- तमिश्राः पिण्डा इत्यत्रापि अक्षता=यवाः । “अक्षताश्च यवाः प्रोका भृष्टा धाना भवन्ति ते” इति वाक्यात् तान्येव दक्षिणार्थमित्यत्र द्वा. शामलकादीनां दक्षिणार्थे विधानादनयौपदेशिक्या दक्षिणयातिदे- शिक्या दक्षिणाया निवृत्तिः । अन्योऽपि विशेषः । सङ्क्र तथा । शुभाय प्रथमान्तेन बृद्धौ सङ्कल्पमाचरेत् । न षष्ठ्या यदि वा कुर्यान्महादोषोऽभिजायते । अमस्मच्छन्दवृद्धानामरूपाणामगोत्रिणाम् । अनाज्ञां चातिलाद्यैश्च नान्दीश्राद्धं न सव्यवत् । बहुँचकारिका च । सम्बन्धनामरूपाणि वर्जयेदत्र कर्माणि । इति । अत्र च यद्यपि नामगोत्राणां वर्जनमुकं तत्तु "गोत्रनामभि रामन्त्र्य पितॄन प्रदापये "दितिकात्यायनत्रचनेन विरुद्धं, तथापि शा. लाभेद्व्यवस्थितं सदविरुद्धमेवेति । प्रयोगपारिजाते तु शुभाय प्रथ मान्तेन यो सङ्कल्पमाचरेत्" इत्युपक्रस्य अनस्मच्छन्दाना मित्युगोत्र.