पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३२०

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- नामादिनिषेधः सङ्कल्पश्राद्धे सपिण्डके तु तन्निषेधो नास्तीत्युतम् । यच्च वृद्धवसिष्ठेनोक्तं । नाम्दीमुखे विवाहे च प्रपितामहपूर्वकम् । नाम सङ्कीर्त्तयेद्विद्वानन्यत्र पितृपूर्वकम् ॥ इति स्मृत्यर्थसारे च- वृद्धमुख्यास्तु पितरो वृद्धिश्राद्धेषु भुखत इति । तच्छा खान्तरविषयम् । कात्यायने तु नान्दीमुखाः पितरः पितामहाः प्रपितामहा इत्युक्तेः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्य इति बचपरिशिष्टोक्तेराश्वलायनादीनामानुलोम्येनैव विधानादनुलोम क्रम एव । ननु आश्वलायनव्यतिरिक्तानां सर्वेषामनुलोमक्रम एव आहवलायनानामेव केवलं प्रातिलोम्यक्रमः "नान्दीमुखे विवाहे च” इति वाक्यात् । इदं हि वृद्धवसिष्ठवाक्यमाश्वलायनविषयकमेव – "वासिष्ठं बहुचैरेव" इति होलाधिकरणे वार्त्तिककारैरुकत्वात्, "माता पितामही चैव" इत्याश्वलायनवचनं तु न क्रमपरं किन्तु पदार्थमात्र- परम्न च वासिष्ठे प्रपितामहपूर्वकालोक्त्या तत् त्रिदेवत्यमात्रे प्रातिलोम्यविधानमस्तु न मात्रादित्रिके न वा मातामहादित्रिक इति वाच्य- म् । तस्योपलक्षणत्वेन वर्गत्रयेऽपि प्रातिलोम्यविधानस्योचितत्वात् । तस्मात्सिद्धं नान्दीमुखे विवाहे च आश्वलायनानां प्रतिलोमक्रम इति चेत् । इदं वोर्थ्य माता पितामही चैव सम्पूज्या प्रपितामही । पित्रादयस्त्रयश्चैव मातुः पित्रादयस्त्रयः । एते नवार्धनीयाः स्युः पितरोऽभ्युदये द्विजैः ॥ इत्याश्वलायनाचार्यवचने, तथा नान्दीमुखाः पितर पितामहाः प्रपितामहा इति यथालिङ्गमर्थ्यदानं पितरः प्रीयन्तामि त्यपां प्रतिग्रहणं विसर्जनं च, एवमुत्तरयोः पितामहप्रपितामहयोरि त्याश्वलायनगृह्णपरिशिष्टे, शौनकीयेऽपि - तत्रेदं तेऽऽर्थमित्येष पितृनामपदादिकः । पितमहार्थविप्रेभ्यो दत्वार्धे च यथा पुरा । प्रपितामहशब्दादिमिदं तेऽर्ध्यमितीरयेत् ॥ "इत्यादबलायनशास्त्राप्रवर्त्तकाश्वलायनादिवाक्येषु प्रतीतो यो