पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३२१

एतत् पृष्ठम् परिष्कृतम् अस्ति

वृद्धिश्राद्धनिरूपणम् । अनुलोमक्रमस्तस्यैषाश्वलायनैरन्तरङ्गत्वेनाङ्गीकार्यत्वात् । न वाशि टोकस्य, तस्य बहिरङ्गत्वात् । अतश्चाथर्वणानां शाखाविशेषे प्रातिलोम्यक्रमस्य प्रत्यक्षपठितस्वात् । तद्विषयो वासिष्ठोक्तः क्रम इति ध्येयम् । बच्चोक्तं वासिष्ठं बहुचैरेवेति होलाकाधिकरणे वार्षिक कारे; णोक्तमिति, तदपि, तत्रत्यपूर्वपक्षमूलकं न सिद्धान्तमूलकं । तथा च पूर्वपक्षे वार्तिकं तद्यथा गौतमीये गौभिलीये, छान्दोग्यैरेव परिग्र हीते, बासिष्ठं बहुबैः शङ्खलिखितोकं वाजसनेथिभिः, आपस्तम्ब बौधायिनीये तैतिरायैरेव प्रतिपन्ने इत्येवं तत्र तत्र गृह्यमन्थव्यव स्थाभ्युपगमादिदर्शनाद्विचारयितव्यं, कि तानि तेषामेव प्रमाणानि, उत सर्वाणि सर्वेषामिति । 4 किं तावत्प्रतिपत्तव्यं व्यवस्थैवेति पाठतः । महान्यत्र स्थितालिङ्गालिङ्गयन्यत्रानुमीयते || "अनुमानायवस्था" इति पूर्वपक्षसुत्रे अनुमानं= लिङ्गम् "आचारात्मकालिङ्गालिङ्गिनो विधिप्रतिषेधौ अनुमीयमानौ तद्विषयावेवानुमातव्यावित्यादिना पूर्वपक्षमुक्त्वा "अपि वा सर्वधर्मः स्यात्" इत्य- मेन शक्तमात्राधिकारित्वाद्राजा राजस्थेन, वैश्यो वैश्यस्तोमेनेत्या. दिवस्कर्तृव्यावर्त्तकविशेषणाभावात् तत्चदाचाराणामनुवृत्तव्यसयाकृतिप्राच्यत्वदाक्षिणात्यत्वादिजातिवचनत्वाभावाच गृह्यधर्मसु शनिबद्धधर्माणामपि सर्वधर्मत्वमिति हि सिद्धान्ते वार्त्तिकम् । तेन वासिष्ठं बहुचैरेवेति पठितवार्तिको नेदं वक्तुं क्षमते| यथोकं "माता पितामही चैब" इत्यत्र न क्रमविधिः, किन्तु पदार्थमात्रं त. दपि न साधु, पाठस्याषि क्रमनियामकत्वमुक्तं "क्रमेण वा नियम्येत" इत्यत्राधिकरणे । समिधो यजति, तनूनपातं यजतीति क्रमेण पठि तानां वागानामनियमेनानुष्ठानमुत पाठक्रमेणेति श्रुत्यर्थयोरभावा. पाठक्रमस्याविधायकत्वाद्विधीनां च पदार्थमात्रपर्यवसानादनियम इति पूर्वपक्षयित्वा राद्धान्तितं । यथा पाठमनुष्ठानं तथैव प्रतिपत्तितः । - स्मृतिप्रयोगवेलायां वाक्यैरेव च कर्मणाम् ॥ इति । यथापाठ क्रियमाणं स्मरणं विहितक्रमं भवतीति पाठक्रमस्य बलवत्वम् । न च प्रतिलोमक्रम औपदेशिक इति वाच्यम् | "एते न.