पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३२३

एतत् पृष्ठम् परिष्कृतम् अस्ति

वृद्धिश्राद्धनिरूपणम् । तु न श्राद्धं युज्यते कर्त्तु प्रथमे पुष्टिकर्माणि ॥ इलाभियोगादिषु तु षट्टसु कर्म पृथक् पृथक् । प्रतिप्रयोगमन्येषामादा मेकं तु कारयेत् । बृहरपत्रक्षुद्र पशुस्वस्त्यर्थं परिविष्यतोः । सुर्येन्द्रोः कर्मणी ये तु तयोः श्राद्धं न विद्यते ॥ म दशाप्रन्थिके नैव विषवद्दष्टकर्माणि । कृमिदष्टचिकित्सायां नैव शेषेषु विद्यते । गणशः क्रियमाणेषु मातृभ्यः पूजन सकृत् ॥ सकदेव भवेच्छ्राद्धमादौ न पृथगादिषु । यत्र यत्र भवेच्छ्राद्धं तत्र तत्र तु मातरः || असकृदिति = प्रतिदिनं प्रतिमास प्रतिसंवत्सरं च यानि क्रियन्ते वै. श्वदेवबलिकर्मदर्शपूर्णमासश्रावण्यादीनि तेषु प्रथमप्रयोग एच आई मातृपूजा च, प्रत्यब्दं येन पशुयागादि क्रियते तेनापि प्रथमप्रयोग एव श्राद्धं कार्ये । आधाने च "वसन्ते ब्राह्मणोऽग्नीनादधीत" इत्या- दिनोकं | होमयोः = सायंप्रातहमियोः । सोध्यन्त्या आसन्नप्रसवायाः बध्वाः सुखप्रसवार्थ सोध्यन्तीमभ्युक्ष्येत्यादिना होमादिकर्मोकं गोमिलन तत्र, तथा ब्रीहियवपिटेन कुमारजिह्वामार्जनाख्ये जातकर्मण, तथा प्रोषितागतकर्माणि= प्रवासादेत्य "प्रोष्यैत्य गृहानुपतिष्ठते" "पुत्रं डड्डा जपती" त्यादिके कुमारमूर्द्धाभिघ्राणादिके च गोभिलोके, न भवतीत्यर्थः । विवाहादिरिति= (१) समनीयचरुहोमगृहप्रवेशयानारोहणचतुष्प धामन्त्रणाक्षभङ्गसमाधानार्थ होमचतुर्थीहामानामादिशब्देन ग्रहणं, एषु विवाहादिगर्भाधानान्तकर्मसु सकृदेव श्राद्धं कार्यम् । प्रदोष इति । गोनिःसरणप्रवेशन कर्मणोगभिलोक्तयोरुभयतन्त्रेणैकं श्राद्धम् । तथा गवां पुष्टिकर्मत्रये गोभिलोक्के प्रथमे पुष्टिकर्मणि, श्राद्धं न कर्त्तव्यम् । हाभियोगादिषु = हलस्याभिमुखेन योगः | पक्केषु धान्येषु सीतायज्ञः, कृष्ट क्षेत्रमध्ये स्त्रलयशः, प्रवपनं, प्रस्त्रवणं, धान्यच्छेदनं, पर्याणं धान्या नां गृहगमनं, एषु हलाभियोगादिषद्सु कर्मसु एकैककर्मणि पृथक् पृथक् प्रतिप्रयोगं श्राद्धं कार्यम् । अन्येषां आवणीकर्मादानामादावेकं श्राद्धं कार्यम् । बृहत्पत्रेति = वृहत्पत्रं-हस्त्यश्वादिः॥ क्षुद्रपशवः = अजाव्यादयः, तेषां स्वस्त्यर्थम् । परिविष्यतोः=परिविष्यमाणयोः सूर्येन्द्वोर्ये कर्मणी गो ( १ ) समशनीयेति श्राद्धतत्वे पाठः । ४० वो० मि०