पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३२५

एतत् पृष्ठम् परिष्कृतम् अस्ति

सामान्यकृष्णपक्षश्राद्धनिरूपणम् । हेमाद्रौ तु । शेषमन्त्रमनुचाय वैश्वदेवक्रियां ततः । श्राद्धाहि श्राद्धशेषेण वैश्वदेवं समाचरेत् ॥ इति वृद्धिश्राद्धप्रयोगे लिखितचतुर्विंशतिवचनाच्छ्राद्धान्ते कर्त व्यता यद्यपि प्रतीयते तथाप्यत्र वाक्ये श्राद्धाहीति सामान्येन श्राद्धग्रहणात्प्रकृतिभूत एव श्राद्धे वैश्वदेवस्यान्ते कर्त्तव्यता न वृद्ध्यादौ । ननु वृद्धिश्राद्धेऽपि विकृतिरूपत्वेन प्राकृतेतिक र्त्तव्यतातिदेशा- दपि वैश्वदेवस्यान्ते कर्त्तव्यता प्राप्तिरपि पुनः पृष्ठलग्नैवेति चेत् | सत्यम् । यद्यत्र वृद्धावादाविति वचनं न स्यात् । तेनोपदेशप्राबल्यादंग्यादावेव स इति । अत्रार्थे शिष्टाचारोऽप्यनुसन्धेय इति । वृद्धिश्राद्धे च तदङ्गतिलतर्पण न कर्त्तव्यमेव । वृद्धिश्राद्धे सपिण्डे च प्रेतश्राद्ध च मासिके । संवत्सरविमोके च न कुर्यात् तिलतर्पणम् | इति बृहन्नारदीये निषेधात् । नान्दीश्राद्धे ब्राह्मणाभाव आह वृद्धवशिष्ठः । मातृश्राद्धे तु विप्राणामलाभे पूजयेदपि । पतिपुत्रान्विता भग्या योषितोऽष्टौ मुदान्विताः ॥ इति । पञ्चब्राह्मणपक्षो भविष्ये । नान्दमुखान्समुद्दिश्य पितॄन् पञ्चद्विजोत्तमान् । भोजयेद्विधिवत्प्राज्ञो वृद्धिश्राद्धे प्रदक्षिणम् ॥ वृद्धिश्राद्धाकरणे च प्रत्यवायो वृद्धशातातपेनोक्तः । वृद्धौ न तर्पिता ये वै पितरो गृहमोधभिः ॥ तदानमफलं सर्वमासुरो विधिरेव सः॥ इति । इत्याभ्युदयिकम् । अथ सामान्य कृष्णपक्षश्र द्धम् । तत्र कात्यायनः । अपरपक्षे श्राद्धं कुर्वीतोर्ध्व वा चतुर्थ्याः । तब सक्कदेव न तु प्रतितिथ्यावर्त्तते । "अश्वयुक्कृष्णपक्षे तु श्राद्धं कार्य दिने दिने" इतिवद्वीप्साया अश्रवणात् । वसन्ते ज्योति टोमवत् | तेन प्रतिपदादिदर्शान्तासु तिथिषु मध्ये यस्यां कस्यां चित्तिथौ श्राद्धं कार्यम् । फलविशेषकामनायां तु पञ्चमप्रभृति यस्यां कस्यां चित्, ततोऽपि विशेषकामनायां दशमीप्रभूति, ततोऽपि