पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३२६

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- विशेषकामनापाममावास्यायाम् । अत एव - कात्यायनः । ऊई वा चतुर्थ्या: । मनुरपि । कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् । [ अ ३ श्लो० ५७६ ] निगमोऽपि । । अपरपक्षे यदहः सम्पद्यते अमावास्यायां विशेषेण । एवं च निगमवचनैकवाक्यतया मनुकात्यायनोक्तावपि पक्षी फलविशेषार्थी, न तु अनुकल्पभूतौ शेयौ । एते पक्षाः निरनिकविबयाः । सान्निकस्य तु अमावास्यामेव "न दर्शेन विना आद्धमाहि ताग्नेर्द्विजन्मन" इति मनुवचनात् । तदा चामावास्याश्राद्धस्य तस्य व तम्त्रेण सिद्धिः । प्रतिपदादिपक्षेषु चतुर्दशीवर्जनं नम्दादिवर्जनं [न] कार्यम् । नभस्यस्थापरे पक्षे श्राद्धं कार्य दिने दिने । नैष नन्दादि वर्ज्य स्यात्रैव वर्ज्या चतुर्दशी || इति भाद्रपदापरपक्षे तद्वर्जन विषेधात्, (१) अन्यत्र तद्द्वर्जनप्रतीतेः ॥ नम्दादिकं च - नारदसंहितायाम् । न नन्दासु भृगोर्वारे रोहिण्यां च त्रिजन्मसु । रेवत्यां च मघायां च कुर्यादापरपक्षिकम् || मन्दा प्रतिपाषष्ठ्ये कादश्यः । त्रिजन्मानि=आद्यदशमै कोनविंशानि । यदपि भानौ भौमे त्रयोदश्यां नन्दाभृगुमघासु च । पिण्डदानं मृदा स्नानं न कुर्यात्तिलतर्पणम् ॥ इति स्मृत्यन्तरे पिण्डदाननिषेधवचनं तदपि, आद्धोपलक्षणार्थम् । इति सामान्यकृष्णपक्षश्राद्धनिर्णयः । अथ महालय श्राद्धम् । तत्र शाळ्यायनिः । नभस्यस्थापरे पक्षे तिथिषोडशकस्तु यः | कन्यागतान्वितत्स्यात्स कालः श्राद्धकर्माणि ॥ अत्र देवता उक्तावतुर्विंशतिमते । (१) सकृन्महालया दावित्यर्थः ।