पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३२७

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाद्रापरपक्षीय श्राद्धभेदनिरूपणम् । क्षयाहं वर्जयित्वा तु स्त्रीणां नास्ति पृथग्विधिः ॥ केचिदिच्छन्ति नारीणां पृथक् आद्धं द्विजोत्तमाः । आचार्यगुरुशिष्येभ्यः सखिशातिभ्य एव च ॥ सर्वेभ्यश्च पितृभ्यश्च तत्पत्नीभ्यस्तथैव च । पिण्डानेभ्यस्सदा दद्यात्पृथक् भाद्रपदे द्विजः ॥ अत्र क्षयाहं वर्जयित्वेत्यनेन षड्दैवत्यमुक्तम् | उत्तरार्द्धेन द्वाद दशदैवत्यमुक्तम् । आचार्येत्यादिना सर्वदैवत्यम् । अन्या अपि देवता - हेमाद्रौ पुराणान्तरे | - उपाध्यायगुरुइवधूपितृव्याचार्यमातुलाः । श्वशुरभ्रातृतत्पुत्र पुत्रवि शिष्य पोषकाः ॥ भगिनीस्वामिदुहितृजामातृभगिनीसुताः । पितरौ पितृपक्षीनां पितुर्मातुश्च या स्वसा | सखिद्रव्यदशिष्याद्यास्तीर्थे चैव महालये ॥ इति । पितृपस्न्यः=सपक्षमातरः । धर्मस्तु नवदेवत्यमाह- महालये गयाश्राद्धे वृद्धौ चान्वष्टकासु च | नवदेवस्यमत्रेष्टं शेषं षाट्पुरुषं विदुः ॥ इति । पार्वणक्रममाह- छागलेयः । क्षयाहे केवला: कार्याः वृद्धावादौ प्रकीर्तिताः । सर्वत्रैव तु मध्यस्था नान्त्याः कार्यास्तु मातरः ॥ सर्वत्र = महालयादाविति हेमाद्रिः । सर्वदेवत्यपक्षे पार्वणैकोदिष्टव्यवस्थोक्ता- जातूकये॑न । सपिण्डीकरणादूर्ध्वं पित्रोरेव हि पार्वणम् । पितृव्यम्भ्रातृमातृणामेकोहिष्टं सदैव हि ॥ इति । मातरः लपत्नमातरः । पित्रोरेव हीति- पितृप्रहणं मातामहस्याप्युपलक्षकम् । पार्वणैकोद्दिष्टानां पौर्वापर्यमाह - - मरीचिः । बधेकत्र भवेयातामेकोद्दिष्टं च पार्वणम् । पार्वणं स्वाभनिर्वर्ध्य एकोद्दिष्टं समापयेत् ||