पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३३२

एतत् पृष्ठम् परिष्कृतम् अस्ति

३२२ कौर्मे । मनुः वीरमित्रोदयस्य श्राद्धप्रकाशे- अथ नित्यश्रादूघम् एकं तु भोजयेद् विप्रं पितॄनुद्दिश्य सत्तमम् । नित्यश्राद्धं तु तहिष्टं पितृयशो गतिप्रदः || अशकं प्रत्याह- कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा । पयोमूलफलैवीप- इति । [ अ० ३ इलो० ८२ ] कोमे॑ । उद्धृत्य वा यथाशक्ति किञ्चिदशं समाहितः । वेदतत्वार्थविदुषे द्विजायैवोपपादयेत् || अहरहः कर्जमसार्थ्य आह देवलः । अनेन विधिना श्राद्धं कुर्यात्संवत्सरं द्विजः । द्विश्चतुर्वा यथाश्राद्धं मासे मास दिने [दिने] ॥ सवत्सरे = तन्मध्ये द्वि.==षद्सु षट्सु मासेषु, चतुः=मासत्रये मा. सत्रये । अत्र विशेषमाह- हारीतः । नित्यश्राद्धमन स्यात् । अनभ्यं = पिण्डादिवर्जितम् । प्रचेताः । - भविष्योत्तरे - नामन्त्रणं न होमं च नाहानं न विसर्जनम् । आवाहनस्वधाकारपिण्डा मौकरणादिकम् । ब्रह्मचर्यादिनियमो विश्वेदेवास्तथैव च || नित्यश्राद्धे त्यजेदेत दिति, तत्रैव- प्रदद्यादक्षिणां शक्त्या नमस्कारैर्विसर्जयेत् इति । यसु न विसर्जनमित्युक्तं तद् "बाजे बाज" इति मन्त्रेण । इति नित्यश्राद्धम् ।