पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३३३

एतत् पृष्ठम् परिष्कृतम् अस्ति

सांवत्सरिकश्राद्धनिरूपणम् | [ अथ सांवत्सरिकश्राद्धम् । ] तन्नित्यम् । प्रतिसंवत्सरं कार्यं मातापित्रोमृतेऽहनि । पितृव्यस्याप्यपुत्रस्य भ्रातुर्येष्ठस्य चैव हि ॥ इति ब्रह्माण्डपुराणोक्तेः । अत्र प्रतिसंवत्सरामिति वीप्सार्थकप्रतिप दोपादानान्नित्यत्वम् । आतुर्येष्ठस्येति =अत्र ज्येष्ठ ग्रहणात्कनिष्ठस्यानाव श्यकम् । अत एव - न पुत्रस्य पिता कुर्यात्रानुजस्य तथाप्रजः | अपि स्नेहेन कुर्यातां सपिण्डीकरण विना || इति सपिण्डीकरणातिरिक्ते श्राद्धे सति स्नेहेऽधिकार उक्तः । लोगाक्षिरपि । श्राद्धं कुर्यादवश्यं हि प्रमीतपितृकः स्वयम् । इन्दुक्षये मासि मासि वृद्धौ प्रत्यक्षमेव च ॥ इति । स्वयमिति= सति सामर्थ्यो । असामर्थ्य तु प्रतिनिधिनापि कार्यम् । असावेतच इति यजमानस्य पित्रे ऋत्विगादिः पिण्डान् दद्यादिति स्मृतेः । केचित्तु प्रतिनिधिविधानमिन्दुक्षयादिष्यतिरिक्तश्राद्धपरम् इह स्वयमित्युपादानादित्याहुः । अत्र च पार्वणैकोद्दिष्टविधायकानि परस्परविरुद्धानि बहूनि वाक्यानि दृश्यन्ते तत्रैकोद्दिष्टविधायकानि तावल्लिख्यन्ते । यमः । सपिण्डीकरणादूर्ध्व प्रतिसंवत्सरं सुतः । एकोद्दिष्टं प्रकुर्वीत पित्रोरन्यन्त्र पार्वणम् ॥ गार्ग्यः । कृतेऽपि हि सपिण्डत्वे गणसामान्यतां गते । प्रतिसंवत्सरं श्राद्धमेकोद्दिष्टं विधीयते ॥ लौग क्षिरपि । सपिण्डीकरणापूर्वमेकोद्दिष्टं सुतः पितुः । ऊर्ध्वं च पार्वणं कुर्यात्प्रत्यब्दमितरेण तु || इतरेण = एकोद्दिष्टेन । प्रत्यग्दमितरेणेति = प्रत्यब्दं विनेत्यर्थ इति के चित् । एकोद्दिष्टं परित्यज्य पार्वणं कुरुते यदि । अक्कृतं तद्विजानीयात्स मातृपितृघातकः ||