पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३३४

एतत् पृष्ठम् परिष्कृतम् अस्ति

३२४ वीरमित्रोदयस्य श्राद्धप्रकाशे- इति यमेन पार्वणे दोषमभिधायकोद्दिष्ट विद्दितम् । व्यासः । सपिण्डीकरणादूर्ध्वं यत्र यत्र प्रदीयते । तत्र तत्रत्र्यं कार्यं वर्जयित्वा मृतेऽहनि || प्रतिसंवत्सरं यत्र मातापित्रोः प्रदीयते । अदैवं भोजयेच्छ्राद्धं पिण्डमेकं च निर्वपेत् || इत्येवमादीनि । तथा पार्वणविधायकाने । जमदग्निः । आपाद्य सहपिण्डत्व मौरसो विधिवत्सुतः । कुर्वीत दर्शचन्द्रा मातापित्रोमृतेऽहनि || शातातपः । तथा- सपिण्डीकरणं कृत्वा कुर्यात्पार्वणवत्सदा । प्रतिसंवत्सरं विद्वाञ्छागलेयोदितो विधिः ॥ इत्यादीनि । एवं संशये केचिदाहुः । औरसक्षेत्रजौ पुत्रौ विधिना पार्वणेन तु । प्रत्यग्दमितरे कुर्युरेकोद्दिष्टं सुता दश ॥ इति । यत्र यत्र प्रदातव्यं सपिण्डीकरणात्परम् | पार्वणेन विधानेन देयमग्निमता सदा ॥ इति जाबालिमत्स्यपुराणवाक्याभ्यां साग्म्योरौरसक्षेत्रजयोः पार्वणमितरेषामेकोद्दिष्टमिति व्यवस्थेति । न च सदेस्युपादनात्सान्निक- बोर्नित्यं निरग्निकयोरौरसक्षेत्रजयोः पाक्षिकं पार्वण, न तु नियमे नै कोद्दिष्टामेति वाच्यम् । एवं सति विधेर्वैषम्यं स्यात्, एक एव विधिः सानिकयोर्नित्यचत्पार्वणंविदध्यान्निरग्निकयोस्तु पाक्षिकमिति । किञ्च यदि प्रत्यब्द पुरस्कारेण पार्वणविधिः स्यात्तदा विलेव[ विरुद्धो ] भयदर्शनेन पार्वणस्यानियमतः प्राप्ताविदं नियमार्थ स्यात् न च तदस्ति । ये सपिण्डीकृताः प्रेता न तेषां तु पृथक्किया । तु यस्तु कुर्यात्पृथक् पिण्डं पितृहा सोऽभिजायते ॥ इति ।