पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३३८

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- पार्वणविधायकमेकोद्दिष्टविधायकं च, अग्निमतश्च पार्वणविधाय मेव । तथानौरसाना मेको वृद्दिष्टविधायकमेव । मद्वाक्यस्यौरस पुरस्कारेण पार्वणविधायकस्य निमानौरसः पार्वणं कुर्यादित्यर्थः सम्पद्यते, तथौरसपुर- एवं चाग्नि चैकवाक्यतयास्कारेणैकोद्दिष्टवाझ्यामां निरझिपुरस्कारेण चैकोद्दिष्टवाक्यानां चैकवाक्यतया निरनिरौरस एकोद्दिष्टं कुर्यादित्यपरोऽर्थः संपद्यते । दत्तकादीनां तु सानीनां अकोद्दिष्टं सुता दशेनि बचनादेको दिष्टमेष, सामान्यप्राप्तविकल्पस्तु अपुत्रमातामहश्राद्धादिषु सावकाश इति न किञ्चिदनुपपन्नमिति | सन्न | "ब्रह्म । [बद्ध] नयस्तु ये विप्रा" इत्यादिना निरनेरपि पार्वणविधानेन निरनिरौरसः पार्वणं कुर्यादित्यपि वक्तुं शक्यत्वात् । तस्मादविशेषाद्विकल्प एव न्याय्यः स चैच्छिक, प्रमीतपितृकः श्राद्धं पर्वकाले यथाविधि । मृताहान यथारुच्या वृद्धावभ्युदयक्रिया | , इति गार्ग्यवचनात् । अत्र सांवत्सरिकाद्रौ पितृपार्वणस्यैव धर्मा तिदेशो न मातामहपार्वणस्य स्वस्थापि विकृतित्वात्, न हि भिक्षुको भिक्षुकान्तरं याचते सत्यन्यस्मिन्नामिक्षुक इति न्यायात् । एवं च पितृक्षयाहे पित्रादित्रयाणामेव श्राद्धं मातृक्षयाहे मात्रादित्रयाणामेव पितृश्राद्धस्यैकोष्टत्वपक्षे तु मातरध्ये कोद्दिष्टमेव कार्यम् । प्रत्यब्दं यो यथा कुर्यात्पुत्रः पित्रे सदा द्विजः । तथैव मातुः कर्तव्यं पार्वणं वान्यदेव च ॥ इति कात्यायनवचनात् । अपुत्राणां मातामहादर्दानां पार्वणमेको दिष्टं वा कार्यम् । पितृव्यभ्रातृमातृणामपुत्राणां तथैव च । मातामहस्यापुत्रस्य श्राद्धादि पितृवद्भवेत् ॥ इतिजातूकर्ण्योक्तेः । मातामहपदं मातामह्या अप्युपलक्षणं दौहित्रस्वेनाधिकारवाक्येऽधिकार्युक्तेः । यत्तु - सपिण्डीकरणादूर्ध्वे पित्रोरेव तु पार्वणम् । पितृष्यभ्रातृमातृणामेकोद्दिष्टं सदैव हि ॥ इति पितृव्यादीनामे कोद्दिष्टविधानं तत्कर्त्रपेक्षया कनिष्ठपितृ व्यादिविषयम् । पितृव्यभ्रातृमातॄणां ज्येष्ठानां पार्वणं भवेत् ।