पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३३९

एतत् पृष्ठम् परिष्कृतम् अस्ति

सांवत्सरिकश्राद्धनिरूपणम् | एकोद्दिष्टं कनिष्ठानां दम्पत्योः पार्वणं मिथः ॥ इति चतुर्विंश[मनोक्तेः ।] मातुलादिश्राद्धं तु एकोद्दिष्टमेव । मातुःसहोदरो यश्च पितुः सहभवोऽथवा । तयोश्चैव न कुर्वीत पार्वणं पिण्डनाइते || यश्च मन्त्रप्रदाता स्थाद्यश्च विद्यां प्रयच्छति । गुरुणामपि कुर्वीत तयानैव तु पार्वणम् । सपिण्डीकरणादूर्ध्व यत्र यत्र प्रदीयते ॥ श्राद्धं भगिन्यै पुत्राय स्वामिने मातुलाय च | मित्राय गुरवे श्राद्धमेकोद्दिष्टं न पार्वणम् ॥ इति बृद्धगर्गसुमन्तु वसिष्ठवचनेभ्यः | दम्पत्योस्तु परस्परं पार्वणमेव, पूर्वोदाहृत चतुर्विंशम्मतात् । “भर्तृपत्त्योश्चेष” मिति स्मृत्यर्थसारोके सपन्योरपि परस्परं पार्वणम् । तत्र स्त्रीकर्तृकामावास्यादिपार्वणे विशेषः । ३२९ स्वभर्तृप्रभृतित्रिभ्यः स्वपितृभ्यस्तथैव च | विधवा कारयेच्छ्राद्धम् इतिवचनात् भर्तृतत्पितृपितामहानां स्व पित्रादीनां त्रयाणां श्रद्धमिति । अत्र च - पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम् | अविशेषेण कर्त्तव्यं विशेषानरकं व्रजेत् || इति सामान्यवचनात् क्षयाहे यद्यपि मातामहप्राप्तिस्तथापि - कर्षसमन्वितं मुक्त्वा तथाद्यं श्राद्धषोडशम् । प्रत्याब्दिकं च शेषेषु पिण्डाः स्युः षडितिस्थितिः ॥ इति कात्यायनेन षपिण्डश्राद्धे प्रत्याब्दिकपर्युदासाद्वाध्यते । "पि. तुर्गतस्य देवत्वमौरस्य त्रिपूरुषम्" इति पारस्करेण त्रिपुरुषश्राद्धविधानात् त्रिपुरुषत्वविधेः षट्पुरुषतानिवृत्यर्थत्वाञ्च | देवत्व गतस्य =स- पिण्डीकरणेन पितृत्व प्राप्तस्य | संग्रहकारस्तु क्षयाहे मातामहान्साक्षाभिषेधति । तथा हि । याज्ञवल्क्येन कालस्तु अमावास्यादि नोदितः । अविशेषण पित्र्यस्य तथा मातामहस्य च ॥ युगपञ्च सति ज्ञेयो वाचनाद्वस्यमाणकात् । कालभेदेन तन्त्रं स्याद् देशभेदो न चैव हि ॥ तस्मात्तन्त्रविधानाच्च योगपद्यं प्रतीयते । घो० मि ४२