पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३४०

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्रद्धप्रकाशे- अमावास्यादिकालेषु तद्ज्ञेयं न मृतेऽहनि । अमावास्यादिकालेषु कालकत्वात्सहक्रिया | मृतानि तु तद्भेदान युज्येत सहक्रिया ॥ इति । अत्र न्यायप्रदर्शन यथा तथास्तु “न तद्ज्ञेयं मृतेऽहनी" इति तु स्पष्टो मातामहनिषेधः । त्रिपुरुषत्वविधानादेव च "स्वेन भत्र समं श्राद्धं सा भुङ्क्ते" इति वचनप्राप्तसपत्नीकत्वस्यापि निवृत्तिः, त्रिपुरुषगतिरिक्तदेवतामात्रभ्यावृत्यर्थत्वात्तस्य । क्रमेण मृतयोर्मातापित्रोर्दैवात्क्ष. या है क्ये तन्त्रेण पाक कृत्वा मरणक्रमेण श्राद्धं कुर्यात्, निमित्तक मस्य नैमित्तिकक्रमनियामकस्वाद | क्रमाशाने तु पूर्व पितुस्त तो मातु पित्रोः श्राद्ध सम प्राप्त नवे पर्युषिते तथा । पितुः पूर्व सुतः कुर्यादन्यत्रासत्तियोगतः ॥ इति कृष्णजनवचनात् । अन्यत्र=पितृमात्रतिरिक्तस्थले । आसत्तिः = सम्बन्धः, सन्निष्कृष्टस्य पूर्व, ततो विप्रकृष्टस्येत्यर्थः । तथा च ऋष्यशृङ्गः । भवेद्यदि सपिण्डानां युगपन्मरणं तदा । सम्बन्धासत्तिमालोच्य तत्क्रमाच्छ्राद्धमाचरेत् ॥ इति । यन्तु नैकः श्राद्धद्वयं कुर्यात्स मानेऽहनि कुत्रचित्” इति प्रचेतोवचनं तन्निमित्तदैवतैक्ये ज्ञेयम् । तथा च - जाबालिः । श्राद्धं कृत्वा तु तस्यैव पुनः श्राद्धं न तहिने । नैमित्तिकं तु कर्त्तव्यं निमित्तानुक्रमोदितम् ॥ इति । अन्वारोहणे तु विशेषः तथा च- लौगाक्षिः मृताहनि समासेन पिण्डनिर्वपणं पृथक् । नवश्राद्धं च दम्पत्योरन्वारोहण एव तु ॥ इति । अत्र पृथङ् नवश्राद्धमित्यन्वयः, चस्त्वर्थे । समासेन= संक्षेपेण । द्विपितृकश्राद्ध इवोभयोदेशेनैकः पिण्डो देयः । नवश्राद्धे तु भेदेनेत्य र्थः । यत्तु- या समारोहणं कुर्याद्भर्त्तुश्चित्यां पतिव्रता | तां मृताइनि सम्प्राप्ते पृथग्पिण्डे नियोजयेत् ॥ प्रत्यन्दं च नवश्राद्धं युगपत्तु समापयेत् ॥ इति तद्येषां दस्तकादीनामेकोद्दिष्टमुक्तं तद्विषयम् । अनेकमातृ १