श्राद्धभेदनिरूपणम् । भिरेकचिश्यारोहणे तु प्रथमं पितुः ततः स्वजनन्याः ततः सपत्नं मातुः प्रत्यासत्तः । कोचरंतु मृताहश्राद्धं नवश्राद्धं च पित्रोः समासेन समानतन्त्रेण कार्ये पिण्डनिर्वपणं तु पृथक् । पूर्वोदाहृतवचनादिस्याडुः । इति सांवत्स रिकनिर्णयः । । अथ श्राद्धभेदाः । विश्वामित्रः । नित्यं नैमित्तिकं कास्यं वृद्धिश्राद्धं सपिण्डनम् । पार्वणं चेति विज्ञेयं गोष्ठ्यां शुध्यर्थमष्टमम् ॥ कर्माङ्ग नवमं प्रोकं दैविकं दशम स्मृतम् । यात्रा स्वेकादशं प्रोक्तं पुष्ट्यर्थ द्वादशं स्मृतम् || तत्र नित्यं नैमित्तिकं चाह- कात्यायनः । अहन्यहनि यत्प्रोक्तं तन्नित्यमिति कीर्त्तितम् । एकोद्दिष्टं तु यच्छ्राद्धं तन्नैमित्तिकमुच्यते ॥ तदव्यदैवं कर्त्तव्यमयुग्मानाशयेत् द्विजान् || अत्र चैव "नैमित्तिके कामकालौ" इत्येतद्वचनादेकोद्दिष्टेऽपि तयोः प्राप्तौ “अदैव” मितिवचनाच विकल्पः | सच शाखाभेदेन व्यवस्थितः । न च क्कापि शाखाया मेकोद्दिष्टे दैवविधानं नास्तीति वाच्यम् । आश्वलायनेन नवश्राद्धेषु दैवविधानात् । काम्यमुकं - वसिष्ठेन । अभिप्रेतार्थसिध्यर्थ काम्यं पार्वणवत्स्मृतम् | वृद्धिश्राद्धमुक्तं तेनैव- पुत्रजन्मविवाहादौ वृद्धिश्राद्धं प्रकीर्तितम् || सपिण्डीकरणमपि तेनैव - नवानीहार्यपात्राणि पिण्डश्च परिकर्थिते । पितृपात्रेषु पिण्डेषु सपिण्डीकरणं तु तत् ॥ पार्वणलक्षणमपि तेनैव- प्रतिपर्व भवेद्यस्मात्प्रोष्यते पार्वणं तु तत् । पर्व = अमावास्या, संक्रान्त्याद्यपि - चतुर्दश्यष्टमी कृष्णा [त्व] मावास्याथ पूर्णिमा । पर्वाण्येतानि राजेन्द्र रविसंक्रमणं तथा ॥
पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३४१
एतत् पृष्ठम् परिष्कृतम् अस्ति