पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३४२

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- इति विष्णुपुराणात् । अत एव भविष्यत्पुराणे द्विविधा पार्वणप दनिरुक्ति:- अमावास्यां यत्क्रियते तत्पार्वणमुदाहृतम् | क्रियते पर्वणि च यत्तत्पार्वणमुदाहृतम् ॥ इति । युगादिश्राद्धेषु तत्पदप्रवृत्तिस्तद्धर्मकत्वात् । गोष्ठ्यां यत्क्रियते श्राद्धं गोष्ठीश्राद्धं तदुच्यते । बहूनां विदुषां सम्पत्सुखार्थं पितृतृप्तये || बहूनां विदुषाङ्गोष्ठ्यां समुदाये तीर्थयात्रादौ युगपत्कर्त्तव्यतया प्राप्तं श्राद्धं पृथक्पाकाद्यसम्भवेन प्रत्येकं कर्तुमसामर्थ्ये सम्भूय सामग्रीसम्पादने यत्सुखं तदर्थं तल्लिप्सया यन्मिलितैः क्रियते गोष्टीश्राद्धमिति शङ्खघरकल्पतरुप्रभृतयः - केचित्तु श्राद्धस्य गोष्ठ्यां वार्तायां क्रियमाणायां तज्जनितोत्साहेन यत्क्रियते श्राद्धं तद्द्वोष्टीश्राद्धमित्याहुः । शुध्यर्थमिति तत्प्रोक्तं श्राद्ध पार्वणवत्कृतम् । यथा प्रायश्चित्ताङ्गविष्णुश्राद्धादि । कर्मानादीनां लक्षणमुक्तं भविष्यपुराणे | निषेककाले सोमे च सीमन्तोन्नयने तथा । ज्ञेयं पुंसवने चैव श्राद्ध कर्माङ्गमेव च ॥ एतच्च निषेकादिग्रहणं सकलश्रौतस्मार्त्तकर्मोपलक्षणार्थम् । "नानिष्ठा तु पितॄन्श्राद्धे कर्म वैदिकमाचरेत्” इतिशातातपवचनात् । "इष्टापूर्तादिकं श्राद्धं वृद्धिश्रद्धषदाचरेत्" इति भविष्यपुराणाच । देवानुद्दिश्य यच्छ्राद्धं तदैविकमिहोच्यते । हविष्येण विशिष्टेन सप्तम्यादिषु यत्नतः || वसिष्ठोऽपि । देवानुद्दिश्य क्रियते तद्दैविकमिहोच्यते । तन्नित्यश्राद्धवत्कुर्याद्वादश्यादिषु यततः || गच्छेद्देशान्तरं यत्तु श्राद्धं कुर्यात सर्पिषा | यात्रार्थमिति तत्प्रोकं प्रवेशे च न संशयः ॥ गच्छन् = तीर्थयात्रार्थ देशान्तरं गच्छन् । देशान्तरग्रहणात्समान देशे यात्राभाद्धं न भवति । प्रवेशे = पर्यागत्य पुनः स्वगृहप्रवेशे | तथा च