ब्रह्मपुराणे । श्राद्धभेदनिरूपणम् | यो यः कश्चित्तीर्थयात्रां तु गच्छेत् सुसयतः सुमनाः सुसमाहितः । स पूर्वं स्वगृहे कृतोपवासः सम्पूजयेद्विधिवद्भक्तिनम्रो गणेशम् ॥ देवान्पितॄन्ब्राह्मणांश्चैव साधून धीमान्प्रीणन्वित [नेति]शक्त्या प्रयत्नात् । प्रत्यागतश्चाथ पुनस्तथैव ३३३ देवान्पितॄन्ब्राह्मणान्पूजयेच्च ॥ इति । शरीरोपचये श्राद्धमन्नोपचय एव च । पुष्ट्यर्थमिति तत्प्रोक्तमौपचायिकमुच्यते ॥ शरीरोपचये=तन्निमित्ते रसायनादावित्यर्थः । यत्तु कूर्मपुराणे - अहन्यहनि नित्यं स्यात्काम्यं नैमित्तिकं पुनः । एकोद्दिष्टं च विज्ञेयं वृद्धिश्राद्धं च पार्वणम् || एतत्पञ्चविधं श्राद्धं मनुना परिकीर्तितम् । इतिकूर्मपुराणे पञ्चविधत्वप्रतिपादनं तद्गोष्ठ्यादिश्राद्धानां पार्वणैकोद्दिष्टान्तर्भावाश्रयणेन । मस्स्यपुराणे तु नित्यं नैमित्तिकं काम्यं त्रिविधं श्राद्धमुख्यते । इतित्रैविध्यमुक्तम् । तत्तत्र तत्रान्तर्भावेनैवेति बोध्यम् । तत्र नित्यान्याह विष्णुः । अमावास्या तिस्रोऽष्टकास्ति स्रोऽन्वष्टका मघा प्रौष्टपद्यूर्ध्व कृष्ण- त्रयोदशी व्रीहियवपाकौ चेति । एतांस्तु श्राद्धकालान्बै नित्यानाह प्रजापतिः । श्राद्ध मेते व कुर्वाणो नरकं प्रतिपद्यते ॥ इति । नैमित्तिकान्याह- गालवः । प्रेतश्राद्धं सपिण्डान्तं संक्रान्तौ ग्रहणेषु च । संवत्सरोदकुम्भं च वृद्धिश्राद्धं निमित्ततः ॥ काम्यानपि स एवाह-- तिथ्यादिषु च यः श्राद्धं मन्वादिषु युगादिषु । अलभ्येषु च योगेषु तत्काम्यं समुदाहृतम् ॥
पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३४३
एतत् पृष्ठम् परिष्कृतम् अस्ति