वीरमित्रोदयस्य श्राद्धप्रकाशे- युगादीनां नित्यतापि समयप्रकाशे वक्ष्यते । तिथ्यादीत्यादिपदेन नक्षत्रयोगादिग्रहणम् । इदं च त्रिविधमपि पार्वणैकोद्दिष्टभेदेन द्विविधम् । तदयमर्थः यत्र द्वादशाविधमुक्त्वा नित्यादिपुरस्कारकारेण विधिस्तत्र तदन्तर्गतमेव नित्यादि ग्राह्यम् । एवं यत्र पञ्चविधमुक्त्वा नित्यादिपुरस्कारेण विधिस्तत्र तथा, यत्र विभागमनुक्त्वा त्रैविध्यं चोक्त्वा धर्मविधिस्तत्र कात्यायनविष्ण्वायुकमिति विवेकः । इति श्राद्धभेदाः । अथ श्राद्धविकृतिषूहो विचार्यते । अक्रोधनैः शौचपरैः सततं ब्रह्मचारिभिः | भवितव्यं भवद्भिश्च मया च श्राद्धकर्मणि ॥ सर्वायास विनिर्मुकैः कामक्रोधविवर्जितैः । भवितव्यं भवद्भिर्नः श्वोभूते श्राद्धकर्मणि ॥ इति । एतौ निमन्त्रणानन्तरं श्राद्धाङ्गभूतनियमश्रावणार्थी मन्त्रौ, प्रकृतावेकैकस्मिन्निमन्त्रितब्राह्मणे प्रयुज्यमानावेकोद्दिष्टे नोह्यौ, प्रकृतौ बहुवचनस्य समवेतार्थत्वात् । प्रकृतौ सद्यो निमन्त्रणपक्षे त्रीहिमन्त्रस्य यवेष्विव द्वितीयमन्त्रस्य लोपः । केचित्तु श्वोभूत इति पदद्वयस्यैव लोपो समर्थत्वाच्छेषस्य तु तेन विनापि वाक्यार्थपर्यवसानात्प्रयोगो भवत्येव । अत एवाग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुखत्विायत्रानाहिताग्निकर्तृकेऽपि पिठ्यक्षे गार्हपत्यपदस्यैव लोप इत्याहुः । विकृतौ तु अद्येत्यूहः । प्रकृतौ सद्यः पक्षे मन्त्राभावस्यार्थिक त्वात् । नचार्थिकं चोदकः प्रतिदिशतीति न्यायात् । अत एव विकृतौ प्रकृतौ यक्षप्रयोगे लुप्तस्यापि ब्रीहिमन्त्रस्योद इत्युक्तमाकरे | दर्भ- बहुपक्षेऽर्थाभावान्मन्त्रलोपे प्राप्ते - निधाय वा दर्भबटूनासनेषु समाहितः । प्रैषानुप्रैषसंयुक्तं विधान प्रतिपादयेत् || इति हारीतवचनान्मन्त्रप्रयोगः कर्त्तव्य एव । आसनोपवेशने- यमः । आसध्वमिति तान् ब्रूयादासनं संस्पृशन्नपि ॥ इति । अत्रास ध्वमिति प्रैषपाठस्थासन संस्पर्शसमानकालीनत्वादासनानां च भिन्नत्वात्प्रतिब्राह्मणमावृत्तेर्बहुवचनस्यासमवेतार्थत्वादे को
पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३४४
एतत् पृष्ठम् परिष्कृतम् अस्ति