विकृतिश्राद्धेषूहविचारः | द्दिष्टादावनूहः | आवाहन उशन्तस्त्वेति मन्त्रे पितॄन हविषे अत्तव इत्यत्र पितृपदस्य प्राप्तपितृलोकपरतया प्रकृनाविव विकृतावपि समवेतार्थत्वाम्मातृमातामहादिश्राद्धेऽनूहः । एकोद्दिष्टे तु देवतासन्निधानार्थं सत्यप्यावाहने वचनेन मन्त्रलोपानोहप्रसङ्ग इति मदनपारिजाते । आवाहनस्यैव लोपा][६] नुह इत्यपरे । अत्तव इत्यस्य ब्राह्मणकर्तृकादन, परतया समवेतार्थत्वादामहिरण्यश्राद्धे स्वकिर्त्तवा इत्यूहो यद्यपि न्यायात्प्राप्नोति तथापि तस्माइच नोहे[दि]ति निषेधादनूह इति के चित् । तद्युक्तम् । “आवाहने स्वधाकार मन्त्रा ज[ऊ] ह्या विसर्जने | इति निरवकाशपौराणवचनेन मन्त्रान्तरे सावकाशोहानषेधवचनव | धस्यैव न्याय्यत्वात् । अन्यथा "वाजे वाज" इति विसर्जनमन्त्रेऽपि स न स्यात, तस्मादूह एव न्याय्यः । “आयन्तु नः पितरः सोम्या सोऽझिग्याता इत्यत्र नोहः, जपमात्रस्यादृष्टार्थत्वात् । यज्ञपार्टी वर्धामिति वदनि वातादिपरतया परविशेषणत्वाच | "तिलांऽसीति" मन्त्रस्य प्रतिपात्रे तिलावापकरणत्वादे कस्मिंश्च पात्रे पितृबहुत्वान- म्वयेन पितॄनिति बहुवचनस्यासमवेतार्थत्वास्पितृ शब्दस्य च संस्कारवचनत्वादे कोद्दिष्टे नोहः । एकपवित्र एकोद्दिष्टे "पवित्रे स्थो वै ष्णव्यौ विष्णोर्मनसौ पूते स्थ इति पवित्रच्छेदोन्मार्जनमन्त्रौ[नो] ह्यौ, दर्शपूर्णमासा पूर्वप्रयुक्तयोर्मन्त्रयोरुपदेशातिदेशाभावेन प्रकृतिश्राद्धा र्थत्वाभावेन विकृतावप्राप्तेः । गौड़ैस्तु सामान्यतो दर्शनेन प्रकृत्यर्थ स्वमव्युत्प्रेक्ष्यत इति तदुपेक्षणीयमिति मैथिलाः । तन । प्रागुदाहृतप्रचेतोवचनेन श्राद्धेऽपि विहितत्वात् तस्माद्दूहः। प्रथमे पात्रे संस्रवात्स मानीय पितृभ्यः स्थानमसीति न्युब्जं पात्रं निद्धातीति । अत्रैकोद्दिष्टे पात्रान्तरीयसंस्रवाभावान्त्युब्जीकरणं नास्तीति केचित् । एकस्यापि पात्रस्य न्युब्जीकरण कार्य, पितृस्थानार्थत्वाइडष्टार्थत्वा- त्य परे । अतश्च तन्मते पितृभ्य इत्यत्रैकोद्दिष्टे पित्र इत्यूहः | गन्धादिदाने - शाव्यायनः । एष ते गन्धः, एतत्ते पुष्पम् एष ते धूपः, एष ते दोपः एतत्तु आच्छादन मिति | अत्र पुष्पादीनां बहुत्वेऽपि एकवचननिर्देशो जात्याख्यायाम् । इदं वः पुष्पमित्युक्त्वा पुष्पाणि च निवेदयेत् |
पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३४५
एतत् पृष्ठम् परिष्कृतम् अस्ति