पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३४६

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- इतित्रह्मपुराणवचनात् । चकारो गन्धायुपसङ्ग्रहार्थः । यत्तु अत्र श्राद्धतत्वे अत एव नवमाध्यायेऽपि सूर्यस्य चक्षुर्गम- यतादिति मन्त्रः सूर्यस्य चक्षुर्बहुत्वेऽपि एकवचनान्त पदनिर्देशारसं- सर्गिद्रव्याणामन्नतोयतेजसां प्रयोग एकवचनान्तः प्रयोग इति विचारितमित्युक्तम्, तदविचारितमेव रमणीयं गौड़प्रतारणमात्राम त्युपेक्षणीयम् । यत्तु कामरूपीये एष वो गन्धः, दई वः पुष्पमित्यादि ब्राह्मे ब हुवचनान्तात्सर्गवाक्यानुरोधाच्छक्यत्वाय सर्वेभ्यस्तम्त्रेण गन्धा दिदानमङ्गीकस्यैष ते गन्धः एतत्ते पुष्पमिति शाट्यायनोकैकवचनाप्तमन्त्राणामेकोद्दिष्ट उत्कर्ष इस्युक्तम् । तदसत् । प्रातिपदिकस्य समवेतार्थत्वेन प्रकरणबाधायोगात्, पाशाधिकरणन्यायेन बिकल्पस्यैवोचिस्यात्, न तु सर्वथात्कर्ष इति । अग्नौकरणे पाणिहोमे पाणौ करिष्य इत्यूह | "अग्भ्यभावे तु विप्रस्य पाणावेव जलेऽपि वा" इति मात्स्येऽग्न्यभावे पाणिविधा- नात, पूर्वपक्षे सोमाभाव इव पूतीकानाम्, अग्निस्थानापन्नत्वेन पाणे. विकृतित्वात् । यत्तु श्राद्धतत्वे हस्तजलयोरपि अग्नौ करिष्ये इत्येव वक्तव्यं पाणेः प्रतिनिधित्वादित्युक्तम् । तदयुक्तम् । साहश्याभावेन प्रतिनिधि- त्वाभावात् । अग्यभावे तु विप्रस्य पाणौ वाथ जलेऽपि वा । अजाकर्णेऽश्वकर्णे वा गोष्ठे वाथ शिवान्तिके | इति मात्स्यप्रत्यक्षवचनविरोधाञ्च' अश्वकर्णादीनां प्रतिनिधित्वा योगाच्च । बटुपक्षेऽपि जल इत्याद्यूहः | पृथिवी ते पात्रमिति जपे वटुपक्षे ब्राह्मणस्य मुखे अमृते इत्येतत् पदत्रयस्य लोपः, ब्राह्मणमुख- कार्यकारिणोऽन्यस्य बढावसम्भवात् अनूहः पदान्तरस्य, अमृतं जुहोमस्येतदविकृतमेव निरधिकरणस्यापि होमस्य सम्भवात् । ब्राह्मणस्य मुख इत्यस्य बटावित्यूहो वा । ब्राह्मणस्याहवनीयार्थत्वातत्स्थानापन्नत्वाइटोः । अत्र वैष्णव्यर्चा यजुषा वेति प्रसङ्गाडक्यजु बोर्लक्षणमभिधाय गीयमानेषु सामसंज्ञेति जैमिनिना समर्थितत्वात् । यच्चान्यदुक्तम्- निरङ्गुष्टं च यच्छ्राद्धं बहिर्जानु च यत् कृतम् ।