पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३४७

एतत् पृष्ठम् परिष्कृतम् अस्ति

विकृतिश्राद्धेषूहविचारः । बहिर्जानु च यद् भुक्तं सर्वे भवति चासुरम् ॥ इति यमवचने निरङ्गुष्ठश्राद्धे निन्दाश्रुर्ब्राह्मणाभावे तत्प्रतिनि धित्वेन श्राद्धकर्त्रङ्गुष्ठं निवेशयेदिति । तदव्यसत् । “एकैकस्याथ विप्रस्य गृहीत्वाङ्गुष्ठमादरात्" इति ब्रह्मपुराणनिन्दाया ब्राह्मणाङ्गुष्ठा भावविषयत्वात् । अथ ब्राह्मणीयत्वस्याङ्गुष्ठाङ्गत्वादङ्गलोपेऽपि प्रधानलोपस्थान्याय्यत्वात् सन्निधानाद्यजमानाङ्गुष्ठग्रहणं तर्हि बहुपक्षे यावत् किञ्चित् ब्राह्मणाङ्गके व्यापारे जान्वालम्भार्धग्रहणभोजनादावपि यजमान एव सन्निधानाद्यजमानः किं न प्राप्नुयात् । तस्मादङ्गुलनिवेशनलोपः । नचैवमर्धस्थापि लोपः स्यादिति वाव्यम् । द्रव्यत्यागस्य ब्राह्मणं विनाप्युपपत्तेः, हस्तप्रक्षेपप्रतिपत्तेस्तु दृष्टार्थ. यत्र कापि कर्तुमुचितत्वात् । अन्तर्जानुकरणमपि यत् किञ्चित् कर्तृकं कर्तुरसामध्ये सर्वकार्येषु प्राप्नुयान्निन्दाश्रवणादिस्यास्तां तावत् | अश्नत्सु जपस्तु बटुपक्षेऽप्यदृष्टार्थत्वाद् रक्षोन्नत्वाच्च भव त्येव । मधुग्वातेति मधुमतीजपे मधुधौरस्तु नः पितेतिपितृशब्दो घुविशेषणत्वेना देवतापरत्वादनुह्यः । तृप्तास्थेति प्रश्ने पङ्किमूर्धन्यप्रधानपक्षे बहुवचनस्य पूजार्थत्वादेकस्मिन्नप्याविरोधः । सर्वप्रश्नपक्षे एकवचनान्तेनैकस्य द्विवचनान्तेन द्वयोरूहः । तृप्तोऽस्मि तृप्तौ स्व इति च प्रतिवचनोहः । अवनेजनपिण्डदानयोर सौशब्दप्रयोगान्मात्रादिश्राद्धे मातरित्यादि प्रयोक्तव्यम् । अत्र पितरो मादयध्वम् । अ मीमदन्त पितरः । नमो वः पितरः | गृहान्नः पितर इत्यत्र पितृशब्दस्य सपिण्डनसंस्कारवचनत्वात् तन्त्रेण प्रयोगाद्वहुवचनस्य सम वेतार्थत्वान्मात्रेकोद्दिष्टे मातर्यपि पितरित्यूहः । इत्थं च प्रयोगः । अत्र पितर्मादयस्व यथाभागमावृषायस्वेति श्रीदत्तादयः । आवृषायथा इति अनिरुद्धगुणविष्णू | अमीमदन पितः, यथा भागमावृषायिष्ठाः । नमः स्ते पितः, रसाय | अघोरः पितास्त्वित्यादि पुल्लिङ्गन्तु नोह्यं पुल्लि मस्यैव पितृशब्दस्य संस्कारवचनत्वात् । एतद्वः पितरो वास इत्यत्र मैथिलाः पितृपदस्य जनकपुरुषशब्दतया मातृश्राद्धे मात्रादि पदेनोह इत्याहुः | तन्न | अन्न पितर इत्येतन्मत्रस्य पितृशब्द समानयोगक्षेमत्वादस्य पितृशब्दस्य । श्राद्धविवेकादयोऽप्येवम् । स्वधावाचने तु पितामहादिपदसमभिव्याहारात पितृशब्दस्य जनकपुरुषवचनत्वात् । बहुवचनस्याडष्टार्थत्वात् मातृश्राद्धे मातृपदोहः कार्यः । वी० मि० ४३