वीरमित्रोदयस्य श्राद्धप्रकाशे- अत्र शूलपाणिः । अत एव दै पशौ एकवचनान्तः पाशमन्त्रो बहुवचनान्तश्च श्रुतः, तत्रैकवचनान्तस्य प्रकृतावर्थवत्वात् द्विपाशिकायां विकृतौ द्विवचनोहः कार्य: बहुवचनान्तस्य तु प्रकृतां वनर्थत्वाद्विकृतावपि नोहः, किन्तु बहुवचनान्तस्यैव प्रयोग इत्युक्तं मीमांसायामिति स्वस्य मीमांसाभिज्ञत्वमाविष्कृतवान् । कामरूपीयोऽप्येवं, तद्द्व- योरपि मन्त्रयोर्विकृतावह इति सिद्धान्तापरिज्ञान विजृम्भितमित्युपेत्य
मीमांसकैः । आमश्राद्धे केषुचिन्मत्रेषु मरीचिनोहः उक्तः ।
तथा च- मरीचिः । आवाहने स्वधाकारे मन्त्रा ऊह्या विसर्जने । अन्यकर्मण्यनूह्याः स्युरामश्राद्धे विधिः स्मृतः ॥ आवाहने= आवाहनमन्त्रे उशन्तस्त्वा निधीमहीति मन्त्रे पितॄन् हविष अत्तव इत्यत्र स्वीकर्तव इत्यूहः । विसर्जने= तम्मन्त्रे वाजे बाजे बतेति मन्त्रे तृप्ता यातेत्यत्र तप्स्यतेति । स्वधाकार इति । स्वघा= पित्र्यहविर्दानं तत् करणं स्वधाकारस्तदङ्गभूतमन्त्रे इदमन्न सोपस्करमिति अन्नोत्सर्गमन्त्र इत्यर्थः । अत्रेदमन्नमित्यन्नपदस्थाने इदं धान्यमित्यादिरूपे गोहः कार्यः । हेमाद्रिस्तु स्वधाकारो=नमो वः पितर इष इति मन्त्रः, तत्रेषइति पद- स्थाने आमायेत्यूह इत्याह । तदयुक्तम् । रसशुस्मादिपदवत् इष इति पदस्य फलीभूतानप्रतिपादकत्वाभावात् । यद्यपि तस्माडचं नोहेदिति वचनात् ऋच्यूहो निषिद्धस्तथापि वचनादुक्तास्वृक्षु भवत्येवो- हः | निषेधस्यान्यास्वृक्षु सावकाशत्वात् । द्विपितृकश्राद्धे तु एतत्ते- इसौ ये च त्वामत्रान्वित्या देरेकवचनान्तस्य प्रकृतावूहाभाषाद् द्वयो चैकवचनस्यासाघुत्वाल्लोप इति केचित् । तन्न । एकस्मिन्नपि द्वौ द्वावुपलक्षयोदति वचनाद् द्विवचनेनोहः कर्तव्य इति धूर्तमातृदत्तादयः । वस्तुतस्तु नानेन वचनेनोहो विधीयते किन्तु एतत्ते ऽसौ ये च 'स्वामत्रान्विति पिण्डान् दद्यादिति वचनेनासौशब्देन सम्बुध्यन्तैक"वचनान्तदेवतानामविधानात् द्विपितृके बैंककस्मिन् इति वचनेन तादृशद्वयविधानादेतत्ते कृष्णशर्मन नारायणशर्मंत्रिति प्रयोगे सम्भवति नोद्दो लोपो वाऽऽधयितुं युक्तः । पुत्रिकापुत्रस्तु पुत्रिकैव पुत्रः