श्राद्धाधिकारिनिरूपणम् । पुत्रीकृताया वा पुत्र इति पक्षयोर्मातरं पितृशब्देन तत्पितरं पितामहशब्देन तत्पितरं प्रपितामहशब्देनोद्दिशेत् "पौत्री मातामहस्तेन" इति वचनेन पुत्रिकापितुः पौत्रित्वावधानात् । तथाचेत्थं प्रयोगः, एतत्ते सत रुक्मिणीदेवि ये च त्वामञान्विति । एवं प्रेतश्राद्धेषु पितृपदस्थाने प्रेतशब्दोह इति यथान्यायं द्रष्टव्यं विस्तरभयादुपरस्यते । इत्यूहविचारः । अथ श्राद्धाधिकारिणो निरूप्यन्ते । तत्र मरीचि । मृते पितरि पुत्रेण क्रिया कार्या विधानतः । बहब: स्युर्यदा पुत्राः पितुरेकत्र वासिनः ॥ सर्वेषां तु मतं कृत्वा ज्येष्ठेनैव तु यत्कृतम् । द्रव्येण चाविभक्तेन सर्वैरेव कृतं भवेत् ॥ पुत्रेणेत्याविशेषात् सर्वेषां पुत्राणामधिकारः । पुत्रेषु विद्यमानेषु नान्यो वै कारयेत् स्वधाम् । इति ऋष्यशृङ्गवचनाद् द्वादशविषपुत्र सद्भावे नान्यस्याधिकारः । तेषां चाधिकारक्रमो वक्ष्यते । अत्र पुत्रेणेत्येकवचनम विवक्षितम्, "प्रमीतस्य पितुः पुत्रैः श्राद्धं देयं प्रयत्नत" इति बृहस्पतिवचनात् । एवं सति सर्वेषां पृथक्श्राद्धानुष्ठानप्राप्तावाई-बहून् इति । एकत्र वासिनः = अविभक्तधनाः । एकत्रवासिन इत्यनेनैव सिद्धेद्रव्येण चाविभक्केनेति [ यत् ] पृथगुरुं तद्विभक्तघनेनापि साधारणीकृतेन द्रव्येणापृथक्क्षाद्धानुष्ठानप्रदेशनार्थ, अत एव - लघुद्दारीतः । खपिण्डीकरणान्तानि यानि श्राद्धानि षोडश । पृथक्पृथक् सुताः कुर्युः पृथग्द्रव्या अपि क्वचित् । शङ्खलिखितावपि । 1 यद्येकजाता बहवः पृथक्क्षेत्रा पृथक्धनाः । एकापण्डाः पृथक्शौचाः पिण्डस्त्वावर्तते त्रिषु ॥ पृथक्षेत्राः = विजातीय मातृजाता: । पृथक् [धनाः = विभकाः । एक] पिण्डाः=लपिण्डीकरणान्तेषु षोडशंश्राद्धेषु एकमेव पिण्डं दधुः, न पुनः प्रतिपुत्रं पृथकपिण्डदानम् | पृथकुशौचा= विजातीयमातृ सम्ब- न्धात् पृथक् शौच भागिनः । पिण्डस्विति=सविण्डता त्रिषु पुरुषेषु भवतीत्यर्थः ।
पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३४९
एतत् पृष्ठम् परिष्कृतम् अस्ति