पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३५१

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्राद्धाधिकारिनिरूपणम् । ३४१ सर्वेषामविशेषेण श्राद्धकर्तृकत्वबोधनात् । बहुपुत्रसान्निध्य एव मरीचिना विशेषाभिधानात् । अत एव - नवश्राद्धं सपिण्डत्वं श्राद्धान्यपि च षोडश एकेनैव तु कार्याणि सविभक्तधनेष्वपि ॥ इति दक्षवचने सर्वेषामधिकाराभिप्रायेणाविशेषादे केनैवेत्युकं, न तु ज्येष्ठेनैवेति। अत्र सपिण्ड[श्व] मिश्रणम्, अतो न षोडशान्तर्गतसपिण्डीकरणश्राद्धेन पौनरुक्त्यम् । एतेन "श्राद्धानि षोडशापाद्य विद धीत सपिण्डताम्" इत्यपि व्याख्यातम् । अत एव रामासान्निध्यवशाद्भरतेनैतच्छ्राद्धं कृतम् । तदुक्तम्- अयोध्याकाण्डे । समतीते दशाहे तु कृतशौचो विधानतः । चक्रे द्वादशिकं श्राद्धं त्रयोदशिकमेव च ॥ दशाह इति अशौचकालोपलक्षणम् । द्वादशिक = द्वादशाहेन निर्वृतम् । यदि पुनरन्तरा ज्येष्ठ सान्निध्य तदा तेनैव कनिष्ठकतावाशे टानि श्राद्धानि कर्तव्यानि । बहुपुत्रसान्निध्ये मरीचिना ज्येष्ठस्यैव कर्तृत्वनियमनात् । अत एव - प्रेतसंस्कारकर्माणि यानि श्राद्धानि षोडश यथाकालं तु कुर्वीत नान्यथा मुच्यते तु सः ॥ इति लघुहारीतवाक्ये ज्येष्ठप्रतक्षया कालातिक्रमो न कर्तव्य इत्य भिप्रायेण यथाकाल तु कुर्वीतेत्युक्तम् । अन्यथा विधानसामर्थ्यात्तत्प्राप्ते यथाकालमिति निरर्थकं स्थात् | यदि कनिष्ठोऽग्निमान् ज्वेष्ठो निस्तदा - एकादशाहं निर्वर्त्य अर्वाक् दर्शाद्यथाविधि । प्रकुर्वीताग्निमान् पुत्रो मातापित्रोः सपिण्डताम् ॥ इतिछन्दोगपरिशिष्टवचनात् कनिष्ठेन दर्शादर्वाक् कृते सपिण्डीक रणे ज्येष्ठेन पुनर्नावर्तनीयम् । एवं कनिष्ठस्य ज्येष्ठासन्निधाने वृद्ध्या- पत्तौ कनिष्ठेन कृतं सपिण्डीकरणं ज्येष्ठेन पुनर्नावर्तनीयम् | "सपिण्डीकरणान्तानी" त्यादिलघुहारीतेन पृथक्करणनिषेधात् । निर्वर्त्तयति यो मोहात क्रिवामन्यनिवर्तिताम् । विधिन्नस्तेन भवति पितृहा चोपजायते ॥