पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३५२

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- तस्मात् प्रेतक्रिया येन केनापि च कृता यदि । न तां निर्धर्तयेत् प्राशः सतां धर्ममनुस्मरन् || इतिवायुपुराणवचनाच | दाक्षिणात्यास्तु ज्येष्ठासन्निधाने कनिष्ठेन कृतं सपिण्डीकरणं ज्येष्ठेन पुनरावर्तनीयं किन्तु प्रेतशब्दोल्लेखो न कार्यः- कनीबसा कृतं कर्म प्रेतशब्दं विहाय तु । तज्यायसापि कर्तव्यं सपिण्डीकरणं पुनः ॥ इतिवचनादित्याहुः | ३४२ ज्येष्ठश्चात्र वर्तमानानां मध्ये सर्वज्येष्ठः । न तु- ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः । पितॄणां मातृणां चैव स तस्माल्लुन्धुमर्हति ॥ [अ०९ लो०१०६] इतिमनुक्तः सर्वपूर्वोत्पन्न एव । तस्य विभागप्रकरणीयत्वेन विंशोद्धारादिप्राप्तये ज्येष्ठस्तुतिमात्रपरत्वात् । ज्येष्ठो यद्यौद्धत्यादिव शात् तन करोति तदा तत्कनीयसा कर्तव्यमेव । श्राद्धकरणस्वरूपयोग्यज्येष्ठ सान्निध्याभावात् । प्रेतत्वविमुक्तये च तदनुष्ठानस्यावश्य कत्वात् । अन्यथा पतितादिज्येष्ठ सान्निध्ये का गतिः । सपिण्डीकरणोत्तरं क्रियमाणेषु अमावास्याश्राद्धादिषु तु अविभक्तानामपृथगेष, विभक्तानां तु पृथगेवाधिकारः । तदाह- बृहस्पतिः । मनुरपि । एकपाकेन वसतां पितृदेवद्विजार्चनम् । एकं भवेत् विभक्तानां तदेव स्यात् गृहे गृहे । एवं सहवसेयुर्वा पृथग्वा धर्मकाम्यया । पृथग्विवर्धते धर्मस्तस्माद्धर्म्या पृथक् क्रिया ॥ [अ० ९ श्लो० १११] अत्र विभागस्थ पृथकूधर्मनिमित्तता प्रतीतेरविभागे धर्मानुष्ठानं पृथङ् नास्तीति प्रतीयते । यत्त व्यासवचनं- अर्वाक्संवत्सराज्ज्येष्ठः श्राद्धं कुर्यात् समेत्य वै । ऊर्पू सपिण्डीकरणात् सर्वे कुर्युः पृथक् पृथक् ॥ एकादशायाः क्रमशो ज्येष्ठस्य विधिवत् क्रियाः । इति, तत्-