श्राद्धाधिकारिनिरूपणम् । कुर्युर्नैकैकशः श्राद्धमाब्दिकं तु पृथक् पृथक् ॥ इति प्रचेतोवाक्यैकवाक्यतया - अविभक्ता बिभक्ता वा कुर्युः श्राद्धमदैवतम् । मघासु च ततोऽन्यत्र नाधिकारः पृथग्विना || इत्यापस्तम्ब स्यैकवाक्यतयाचाब्दिकश्राद्धपरं, विभक्तकर्तव्यामावा- स्यादिश्राद्धपरं वा, अस्मिंश्च पक्षे प्रचेतोवचने आब्दिकग्रहणं सपिण्डीकरणोत्तरभाविधाद्धमात्रोपलक्षणार्थमिति शेयम् । शूलपाणिस्तु लघुद्दारीतवाक्ये सपिण्डीकरणान्तानीति विशेषणाद- पिशब्दस्वरसाथ सपिण्डीकरणादूर्ध्वे विभक्तानामविभक्तानामपि पृथक् श्राद्धमिति सिद्ध्यति । अत एव व्यासवाक्ये "ऊर्ध्व सपिण्डी- करणात् सर्वे कुर्युः पृथक्पृथक्” इति विभक्तांविभक्त साधारण्येन सर्व इत्युक्तम् । मनुबृहस्पतिभ्यां तु अविभक्तानामपृथग् धर्मः प्रतिपादित स्तस्मात् पृथग्धर्मानुष्ठाने फलातिशयः प्रतीयत इत्याह । अथ द्वादशविधपुत्राणां स्वरूपं श्राद्धाधिकारक्रमथ निरूप्यते । तत्र याज्ञवल्क्यः । ३४३ औरसो धर्मपत्नजिस्तत्समः पुत्रिकासुतः । क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणतरेण वा || गृहे प्रच्छन्न उत्पन्नो मूढजस्तु सुतः स्मृतः । कानीनः कन्यकाजातो मातामहसुतो मतः । अक्षतायां क्षतायां वा जातः पौनर्भवः सुतः ॥ दद्यान्माता पिता वायं स पुत्रो दत्तको भवेत् । क्रीतश्च ताभ्यां विक्रीतः कृत्रिमः स्यात् स्वयंकृतः ॥ दत्तात्मा तु स्वयं दत्तो गर्भे विनः सहोदजः । उत्सृष्टो गृह्यते यस्तु सोऽपविद्धो भवेत् सुतः ॥ पिण्डदौऽशहरश्चैषां पूर्वाभावे परः परः । [ अ० २ प्र० ८ श्लो० १२८-१३२ ] उरसो जात और=स धर्मपत्नीजः । सवर्णा धर्मविवाहोदा धर्म पत्नी तस्यां जात औरसः पुत्रो मुख्य इति मिताक्षरा । मनुरपि - (१) संस्कृतायां सवर्णायां स्वयमुत्पादयेत् तु यम् । ( १ ) स्वक्षेत्रे सस्कृतायां विद्रि मुद्रितपुस्तके पाठः |
पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३५३
एतत् पृष्ठम् परिष्कृतम् अस्ति