पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३५४

एतत् पृष्ठम् परिष्कृतम् अस्ति

३४४ वीरीमत्रोदयस्य श्राद्धप्रकाशे- तमौरसं विजानीयात् पुत्रं प्रथमकल्पिकम् || [ अ० ९ लो० १६६ ] तत्समः=औरससमः | पुत्रिकायाः सुतः पुत्रिकासुतः । अभ्रातृकां प्रदास्यामि तुस्यं कन्यामलङ्कृताम् । अस्यां यो जायते पुत्रः स मे पुत्रो भवेदिति ॥ [इति] बशिष्ठाद्युक्त विधानेन दत्तायामुत्पन्नः स च "यदपत्यं भ वेदस्यां तन्मम स्यात् स्वधाकरम्” इतिसंवित्कृतो मातामहमात्रसम्ब न्धी एकः पुत्रिकापुत्रः । “यदपत्यम्भवेदस्यां तद् द्वयोः स्यात् स्वधाकरम्” इति संविदोत्पन्नोऽपरः । अथवा पुत्रिकैव सुतः पुत्रिकासुतः । स त्रिविधः, औरससमः | औरसक्षेत्रजावुक्त्वा- । वसिष्ठः । तृतीयः पुत्रिकैवेति । पुत्रिकैष तृतीयः पुत्र इत्यर्थः । क्षेत्रणः क्षेत्रजातास्त्विति=क्षेत्रं =भार्या । मनुरपि । यस्तल्पजः प्रमीतस्य क्लीषस्य व्याधितस्य वा । स्वधर्मेण नियुक्तायां स पुत्रः क्षेत्रजः स्मृतः ॥ [ अ० ९ श्लो० १६७ ] - तल्प=भार्या | स्वधर्मेण = घृताभ्यक्तत्वादिना | तदाह - मनुरेव । विधवायां नियुक्तस्तु घृताको वाग्यतो निशि । एकमुत्पादयेत् पुत्रं द्वितीयं न कदाचन ॥ [ अ० ९ श्लो० ६० ] अयं च अस्यां यदपश्यं जायते तदावयोरित्वेवंरूपक्रियाभ्युपगमे बीजिनोऽपि । तदाह- मनुः । (१) क्रियाभ्युपगमास्ववं बीजायें यत् प्रदीयते । तस्येह भागिनौ दृष्टौ बीजी क्षेत्रिक एव च || [अ०९ श्लो० ५३] इत्यादि द्विपितृकश्राद्धदेवतानिर्णये तत्प्रपञ्चितम् | बीजिनस्त्वयं नौरसः "औरसो धर्मपत्नीजः" इति याज्ञवल्क्योक्तेः, किन्तु पौनर्भ वविशेषः । “अक्षतायां क्षतायां वा जातः पौनर्भवः सुत" इति याज्ञवल्क्यवचनात् । गृह इत्यादि । गूढजः पुत्रो भर्तृगृहे प्रच्छन्न उत्पन्न होना ( १ ) क्रियाभ्युपगमास्वेतत् इति मुद्रित पुस्तके पाठः ।