पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३५५

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्राद्धाधिकारिनिरूपणम् । ३४५ धिकजातीय पुरुषजत्व परिहारेण पुरुषविशेषजत्वनिश्चयाभावेऽपि सवर्णजत्वनिश्चये सति बोद्धव्य इति मिताक्षरा । अयं च क्षेत्रिण एव । तथा च- मनुः । उत्पाद्यते गृहे यश्य न च ज्ञायेत कस्य सः | स गृहे गूढ उत्पन्नस्तस्य स्वाद्यस्य तल्पजः ॥ इति । [ अ० ९ श्लो० १०० ] कानीन इति । कन्या=अपरिणता । तथा च- वशिष्ठः । कानीनः पञ्चमोऽयं पितृगृहे संस्तुता कामादुत्पादयत् स काननो मातामहपुत्रो भवतरियाह । अथाप्युदाहरन्ति | अप्रत्ता दुहिता यस्य पुत्रं विन्देत तुल्यतः । पुत्री मातामहस्तेन दद्यात् पिण्डं हरेजनम् ॥ तुस्यतः = सजातीयात् । ब्रह्मपुराणे । मनुः । अदायान्तु यो जातः सवर्णेन पितुर्गृहे । सकानीनः सुतस्तस्य यस्मै सा दीयते पुनः ॥ पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्रहः । तं कानीम वदेशाम्ना वोडुः कन्यासमुद्भवम् || [ अ० ९ ला० १७२ ] बोढुः = उत्तरकालं वोढु', "अदत्तायां त्वि" त्यादि ब्रह्मपुराणैकवाक्यात् । तं कन्यासमुद्भवं पुत्रं नाना कानीनं वदेदित्यन्वयः | कन्यासमुद्भवमिति कार्नानशब्दस्य योगकथनाय । अत्र मातामहपुत्रत्वविधायके याज्ञवल्क्यवशिष्ठवाक्ये अपुत्रमातामहविषये । परिणेतृपुत्रत्वविधायकेतु ब्रह्मपुराणमनुवाक्ये अपुत्रपरिणेतृविषये । उभयोः सपुत्रत्वे वा उभयोरेवेति सम्प्रदायः । मिताक्षराकारस्तु कार्नानः कन्यकायामुत्पनः पूर्ववत् सवर्णात्, स मातामहस्य पुत्रः, यद्यनूढा सा भवेत् तथा पितृगृह एव संस्थिता, अथ ऊढा तदा चोदुरेव पुत्रः "पितृवेश्मनी"त्यादिमनुवाक्यादित्या छ । तबिन्त्यम् । “अदायां तु यो जात "इत्या दिब्रह्मपुराणवाक्यवि वी० मि ४४