पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३५६

एतत् पृष्ठम् परिष्कृतम् अस्ति

३४६ वीरमित्रोदयस्य श्राद्धप्रकाशे- रोधात् । "अक्षतायां क्षतायां वा जातः पौनर्भव: सुत" इति याज्ञव क्यवचनेन परिणयोत्तरं परिणेत्रक्षतयोनिकायामुत्पन्नस्य पौनर्भवत्वाभिधानेन कानीनत्वाभावाच्च । अक्षतायामिति । अक्षतायां क्षतायां वा पुनर्स्था सवर्णादुत्पन्नः पौनर्भवः । विष्णुः । या तु पत्या परित्यक्ता विधवा स्वेच्छयाथवा | उत्पादयेत् पुनर्भूत्वा स पौनर्भव उच्यते ॥ मनुरपि । या पत्या वा परित्यक्ता विधवा वा स्वयेच्छया । उत्पादयेत् पुनर्भूत्वा स पौनर्भव उच्यते ॥ [ अ० ९ श्लो० १७५ ] सा चेदक्षतयोनिः स्याङ्गतप्रत्यागतापि वा । पौनर्भवेन भर्त्रा सा पुनः संस्कारमर्हति । [अ० ९ श्लो० १७६ ] पुनर्भूत्वा = पुनरन्यस्य भार्याभूत्वा | सा=स्त्री चेदक्षतयोनिः सती अन्यमाधयेत् । तदा तेन पौनर्भधेन पुनर्भूत्वसम्पादकेनान्येन पत्या पुनर्विवाहाण्य संस्कार मर्हति । यदि वा कौमारं पतिं परित्यज्य अन्यमाश्रित्य पुनः पूर्वपत प्रत्यागता भवति, तदापि तेन कुमारेण भर्त्रा पुनर्विवाहाख्यसंस्कारमर्हति । अयं च पुत्रः उत्पादकस्यैव । परित्यागेन मरणेन वा तस्यां परिणेतुः स्वत्वाभावात् । स्पष्ट माह- , - कात्यायनः । क्लीवं विहाय पतितं या पुनर्भजते पतिम् । तस्यां पौनर्भवो जातो व्यक्तमुत्पादकस्य सः ॥ दयान्मातेति । अत्र विशेषमाह - मनुः । माता पिता वा दद्यातां यमद्भिः पुत्रमापदि । सहशं प्रीतिसंयुक्तं स शेयो दत्रिमः सुतः ॥ [अ० ९ श्लो० १६८] सदर्श = सजातीयम् । प्रीतिसंयुक्तं = अविप्रतिपन्नम् "विक्रियं चैव दाने वा न नेयाः स्युरनिच्छव" इत्येकवाक्यत्वात् । श्राद्धचिन्तामणौ प्रीतिसंयुक्ताविति पठित्वा प्रीतिसंयुक्तौ = भयाद्यपाधिरहिताविति व्याख्यातम् । "न स्त्री पुत्रं दद्यात् प्रतिगृहयाद्वान्यत्रानुज्ञान मर्तुरिति वशिष्ठवा- V